Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 50
________________ कौमुदीमित्राणन्दरूपकम् / * कामरतिः-कथमयमास्थानमुपसर्पति देवः / (प्रविश्य राजा सिंहासनमलङ्करोति / ) ( अमात्यः प्रणमति / ) राजा-अमात्य ! प्रवर्तितः प्रविशतो वत्सस्य नगर[ प्रवेश ]महोत्सवः ? / कामरतिः-अथ किम् / ( प्रविश्य ) प्रतीहारः- देव ! रत्नाकरनगराधिवासिना विजयवर्मणा मण्डलेश्वरेण प्रेषितः पुरुषो द्वारि वर्तते / राजा-(साशङ्कम् ) शीघ्रं प्रवेशय / (प्रविश्य पुरुषः प्रणमति / ) राजा-(साक्षेपम् ) अरे करभक ! प्रस्थितो विजयवर्मा समूलकाषं कषितुं दुरात्मानं चक्रसेनम् / पुरुषः- देव ! प्रस्थानमेव विज्ञपयितुं सिंहलद्वीपपरमेश्वरपादानां विजयवर्मणा मण्डलेश्वरेण प्रेषितोऽस्मि / राजा- 'दुरुच्छेदः खलु दुरात्मा चक्रसेनः, ततस्त्वया समग्रसामग्रीकेण योद्धव्यम्' इति गत्वा समादिश विजयवर्माणम् / ( पुरुषः प्रणम्य निष्क्रान्तः / ) राजा - ( विमृश्य ) अमात्य ! आकाऽऽगमनं वयं खनगराद् वत्सस्य लक्ष्मीपतेः, सर्वाङ्गीणसुधानिषेकसुभगामाखादयामो दशाम् / कामं वाममिदं स्फुरत्यविरतं नेत्रं च गात्रं च नः, कोऽयं नाम परस्परप्रतिहतः सर्गक्रमो वेधसः 1 // 3 // कामरतिः-प्रभञ्जनप्रकोपप्रभवानामङ्गस्फुरणानां शुभा-ऽशुभोदर्केषु को नाम विश्रम्भः / ( नेपथ्ये वध्यपटहध्वनिः / ) राजा-अमात्य ! महोत्सवदिने किमिदम् ? / . __ (प्रविश्य ) प्रतीहारः-वर्धसे देव ! वर्धसे, प्राप्तः कालपाशेन नगरलुण्टाकस्तस्करः / 1) मनं निजस्य नग ख / कौ० 5

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98