Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________ 36 . महाकविश्रीरामचन्द्रसूरिविरचितं कामरतिः-देव ! नेयमस्य पत्नी, किमुतानेन कुतोऽप्यपहत्य मत्रेण वा तत्रेण वा व्यामोहिता, तदियं मुहुर्मुहुरेतदनुकूलं व्याहरति / राजा-( विमृश्य ) अरे कालपाश! पौरानाह्वय / (प्रविश्य कृतोष्णीषाः सप्ताष्टा वणिजः प्रणमन्ति / ) राजा-उपलक्ष्योपलक्ष्य प्रतिगृह्णीत यूयं खं स्वमाभरणं द्रविणं च / वणिजः-(विलोक्य) भट्टा! न इत्थ अम्हाणं आभरणं वा दविणं वा किं पि अस्थि / राजा-अमात्य ! न तावदमुनाऽस्मत्पौराणां किमप्यपहृतम् , देशान्तरतस्करनिग्रहे तु के वयम् ? / कामरतिः-(स्वगतम् ) ने नामास्मिंस्तस्करे जीवति ममेयं कथञ्चिदपि वनिता सम्पद्यते, तदयं यथाकथञ्चिदपि व्यापादयितव्यः / भवतु / (प्रकाशम् ) देव ! निश्चयेन तावदयं चौरः / साम्प्रतमेव चायमायातस्ततः पौराणां किमपि नापकृतवान् / अतः परं पुनः सर्वमपि शनैः शनैरपकुर्यात् / चौरश्च राज्ञां खदेशजो वा परदेशजो वा वध्य एव / (पुनरपवार्य ) इदं धनं इयं स्त्री च देवपादानामभ्यर्णे विश्राम्यतु / चौरस्य पुनः प्रतिविधानं कालपाशः कुरुताम् / / राजा-( कालपाशं प्रति ) यदभिधत्ते मत्री तदनुष्ठेयम् / ___ ( कामरतिः कालपाशस्य कर्णे एवमेव / ) ( कालपाशः साक्षेपं मित्राणन्दं केशैर्गृह्णाति / ) .. (नेपथ्ये करुणध्वनिः / ). राजा-(सभयमाकर्ण्य ) अमात्य ! किमिदम् ? / (प्रविश्य ) चेटी-(सोरस्ताडम् ) भेट्टा ! मुसिद म्हि मुसिद म्हि / राजा-चतुरिके ! विश्रब्धमभिधीयताम् / चेटी-भट्टा! देवी पत्तलेहा विण्णवेदि। राजा-त्वरिततरं विज्ञपय-किमादिशति देवी / चेटी-कुंमारो लच्छीवई उजाणे कुसुमावचायं कुव्वाणो भुअंगमेण दट्ठो विवन्नो अ, एदं देवी विनवेदि / 1) भर्तः ! नात्रास्माकं आभरणं वा द्रविणं वा किमप्यस्ति / 2) भर्तः ! मुषिताऽस्मि मुषिताऽस्मि / . 3) भर्तः ! देवी पत्रलेखा विज्ञपयति / 4) कुमारो लक्ष्मीपतिरुयाने कुसुमावचायं कुर्वाणः भुजङ्गमेन दष्टो विपन्नश्च, एतद् देवी विज्ञपयति / 1 निग्रहेषु ख। 2 न चास्मि ख।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/efb540368313ead4f3839d5392658720c4b3f2148e54a5cbec4c15e34fc1dd6e.jpg)
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98