Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 44
________________ 27 कौमुदीमित्राणन्दरूपकम् / मित्राणन्दः - ( वामाक्षिस्फुरणमभिनीय सभयम् ) साम्प्रतमपायपिशुनं नः किमप्यशकुनम् / तत् तावद् बहिरेव क्वचिदप्यास्महे यावदयं तस्करोपप्लवः क्वचिदपि विश्राम्यति / तदेहि कृतपुरीपरिसरनिवेशं जीर्णपाषाणसञ्चयं कात्यायनीनिलयमनुसरामः। (उभौ परिक्रामतः / ) मित्राणन्दः-प्रिये ! तदिदं पश्य, केतुस्तम्भविलम्बिमुण्डमभितः सान्द्रान्नमालाश्चित द्वारं शोणितपङ्किलाङ्गणमदन्मार्जारिभीष्मान्तरम् / - गोपुच्छोत्थितदीपमइमकुहरक्रोडप्रलुप्तोल्वणव्यालं दर्दुरदाहधूमविधुरं कात्यायनीमन्दिरम् // 12 // ( कौमुदी विलोक्य वेपते / ) मित्राणन्दः-प्रिये ! अन्धकारप्राग्भारदुर्लक्ष्यविषमा चण्डिकायतनप्रदेशपदवी, ततो मत्पृष्ठलग्ना प्रविश / . (उभौ मध्यप्रवेशं नाटयतः / ) . मित्राणन्दः-( कतिचित् पदानि गत्वा विलोक्य च ) कथमयमभ्यन्तरे करकलितासिधेनुः प्रतिभयतरलेक्षणः कोऽपि पुरुषः 1 / (कौमुदी पलायितुमिच्छति / ) मित्राणन्दः-( उच्चैःखरम् ) भो महापुरुष ! मा भैषीः / इदानीमेव देशान्तरतः समायातो वणिगहम्, न पुनस्तस्करो वा घातको वा, तदास्ख यथासुखम् / (पुनविलोक्य ) कथमयं पाषाणसन्धिविवरेण निःसृत्य बहिर्गतवान् ? / भवतु, तर्हि गर्भगृहावस्थितां भट्टारिकां विलोकयामः / ( विलोक्य ) प्रिये ! पश्य पश्य, नेत्र-श्रोत्र-वरोष्ठ-बाहु-चरण-घ्राणादिभिः प्राणिनां, मन्त्रैः क्लृप्तबलिर्वसारसकृतलानाऽन्त्रमालार्चिता। कण्ठस्थोरगलिह्यमानबहलप्लीहाङ्गरागा गल. द्रक्ताद्भिनरेन्द्रकृत्तिरसनोत्तंसा मृडानी पुरः॥ 13 // ( कौमुदी उत्तरीयाञ्चलेन नासां पिधाय सजुगुप्सं निध्यायति / ) मित्राणन्दः-प्रिये ! कचिदपि प्रदेशे विमुश्च द्रविणकरण्डकम् / कौमुदी-( करण्डकं विमुच्य ) अंजउत्त ! इआणिं केणावि कारणेण मह सरीरम्मि महंतो उव्वेगो। 1) आर्यपुत्र ! इदानीं केनापि कारणेन मम शरीरे महानुद्वेगः /

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98