Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 40
________________ 23 कौमुदीमित्राणन्दरूपकम् / * दिव्यः कोऽपि निरर्गलः परिमलः काष्ठाः स्तृणीते यथा, व्यक्तं हन्त ! तथोपसर्पति महीं श्रीजाङ्गुलीदेवता // 19 // कुलपतिः-(सप्रश्रयम् ) स्वस्ति देवतायै / देवता-(सविनयम् ) श्रीमन्मुनीश्वर ! शिवप्रतिभूः समाधि__ श्चापल्यविप्लवमपास्थत कच्चिदुच्चैः ? / सर्वेऽपि किं व्रतभृतः सुखमासते ते ?, किश्चाद्य मां किमसि संस्मृतवानकस्मात् ? // 20 // कुलपतिः -(सादरम् ) हालाहलहरी विद्यां वन्द्यां देवैः सदानवैः। एतस्मै देवि ! जामाने प्रसीद प्रतिपादय // 21 // ( देवता मित्राणन्दस्य शिरसि दक्षिणभुजं निधाय कर्णे एवमेव / ) मित्रांणन्दः-महाप्रसादः ( इत्यभिधाय प्रणमति / ) देवता-मुनीन्द्र ! बजामो वयम् / कुलपतिः-निष्प्रत्यूहास्त्रिदशसम्पदो भूयासुः। (देवता तिरोधत्ते / ) . (नेपथ्ये ) : 'अस्ताद्रिमाश्रयन्तं प्रदोषसंहृतसमस्तवसुसारम् / वोढारं कुलवनितेव मित्रमनुसरति दिनलक्ष्मीः // 22 // गजपादः-( साशङ्कमात्मगतम् ) कथमयं बटुः सन्ध्यासमयव्यावर्णनाव्याजेन प्रकृष्टदोषघोरघोणापहृतद्रविणसारेण सार्थवाहकुमारेण सह वत्साया गमनं सूचयति ? / . गन्धमूषिका-(पुरोधसं प्रति ) रजनिरिदानीम् , पर्णशालाभ्यन्तरमुपैतु वत्सा, पश्यतु अपरसार्थवाहप्रतिपच्या जामातरम् / कुलपतिः-वयमपि तर्हि प्रादोषिकी सन्ध्यामनुष्ठातुं प्रतिष्ठामहे / ( इति निष्क्रान्ताः सर्वे / ) // तृतीयोऽङ्कः समाप्तः॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98