Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 39
________________ 22 महाकविश्रीरामचन्द्रसूरिविरचितं (उभौ तथाकुरुतः / ) कुन्दलतिका-(मित्राणन्दं प्रति) दइएहिं चेअ परम्मुहेहिँ मयणग्गिभिंभलमणाओ। कारिजंते कुलबालिआउ गहिला कन्जाइं // 15 // गन्धमूषिका-ततस्तथाकथञ्चिदस्या अभिमुखो भूयाः यथेयं कौलीनं किमपि नाऽऽचरति / ( मित्राणन्दः सलज्जमधोमुखो भवति / ) कुलपतिः जामातः! प्रतिपादिता शुभशतप्रागल्भ्यलभ्या खयं, __ तुभ्यं वर्गनितम्बिनीप्रतिनिधिः पुत्री मया कौमुदी / पित्रोर्नेत्रमहोत्सवे करतलव्यामोचनापर्वणि, . खेरं वस्तु यदिष्टमस्ति भवतस्तत्किश्चिदुच्चैर्वृणु // 16 // मित्राणन्दः-( अञ्जलिं बवा ) विषापहारमन्त्रोपदेशेन प्रसीदः / कुलपतिः-(सावहेलम् ) प्रियां प्राणेभ्योऽपि त्वयि विसृजतो वत्स ! तनया मदेयं किं नाम खमपि विजहासोः कुलपतेः ? / किमेतैस्तैः पल्लीजनसमुचितैरक्षरलवै रसाध्यं विश्वानामपि किमपि वस्तु स्मर ततः॥ 17 // गजपाद:- अल्पत्वं च महत्त्वं च वस्तुनोऽर्थित्वमीक्षते। क्रव्ये तरक्षुः श्रद्धालुन कव्ये त्रिदशांपतिः॥१८॥ गन्धमूषिका-भगवन् ! यदभिरुचितं जामात्रे तदस्तु / पुरोधाः-मुनीन्द्र ! नार्हसि पवित्रेऽस्मिन् पाणिमोचनापर्वणि जामातुर्वैमनस्यमाधातुम् / कुलपतिः-(विमृश्य सविषादम्) मर्कटवर्ण ! पवित्रय पुष्पोपहारेण ध्यानवेदीम् / (मर्कटवर्णस्तथाकरोति / ) ( कुलपतिः रसनाबन्धमाधाय ध्यानं नाटयति / ) गजपाद:-(कर्णं दत्त्वा) मञ्जीराणि यथा रणन्ति, बहलः कोलाहला खेचरी व्रातस्यैष यथा, यथा च वियति ज्योतिः समुज्जृम्भते / 1) दयितैः एव पराङ्मुखैर्मदनाग्निविह्वलमनसः / कार्यन्ते कुलबालिका प्रथिलानि कार्याणि //Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98