Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 38
________________ कौमुदीमित्राणन्दरूपकम् / कुलपतिः-वत्से ! गत्वा ब्रूहि आर्यां गन्धमूषिकाम् / यथा-विवाहवेदिकामागत्य वधूवरोचितानि कर्माणि कारय / (कुन्दलतिका निष्क्रान्ता / ) __(प्रविश्य ) मर्कटवर्णः-भगवन् ! इदानीं सर्वस्यापि कर्मणः पर्यन्तः सञ्जातः / तदागच्छत यूयं येन पाणिग्रहणमाधीयते / (इति पुरो निधाय विज्ञपयति / ) (सर्वे परिक्रामन्ति / ) मर्कटवर्ण:- भगवन् ! इदं वधूवरम् , अयं पुरोधाः, इयं भगवती गन्धमूषिका कुन्दलता च / . (ततः प्रविशन्ति यथानिर्दिष्टाः सर्वे / ) कुलपतिः-(गन्धमूषिकां प्रति ) आयें ! सवरां विवाहवेदीमधिरूढां कौमुदी वत्सां विलोक्य प्राप्तमस्माभिर्जन्मनस्तपःकर्मणश्व फलम् / गन्धमूषिका-(सास्रम् ) मदीयेन तपसा सतीत्वेन च चिरमविधवा भवतु वत्सा। गजपादः- वत्से ! प्रतिगृहाण शिरसा पितृष्वसुराशिषम् / (कौमुदी शिरो नमयति / ) पुरोधाः-(कुलपतिं प्रति ) अर्घदानपूर्वकं प्रयच्छ पुत्री जामात्रे / कुलपतिः-कोज भोः ! 1 / पाद्यं पाद्यम् , अधैर्घः। (प्रविश्य तुन्दिलः सर्वमुपनयति / ) कुलपतिः-( सालं पादौ प्रक्षाल्यार्घमुपनयति / पुनः सगद्गदम् ) वत्स मित्राणन्द ! प्रतिगृहाणास्मत्कुटुम्बदृष्टिचकोरीकौमुदी पुत्री कौमुदीम् / . (प्रविश्य ) . बटुः-(पुरोधसं प्रति ) लग्नसमय इदानीम् , ततः समाप्यतां कौतुकविधिः, प्रतिरुध्यतां कोलाहला, अवधीयतां झल्लरीझात्कारे / ... (पुरोधाः सरभसमुत्थाय हस्तसंज्ञया कोलाहलं प्रतिरुणद्धि / ) (नेपथ्ये झल्लरीझात्कारः।) पुरोधाः-पुण्याहम् पुण्याहम् ( इत्युच्चारयन् वधूवरस्य पाणी योजयति / ) (नेपथ्ये तापस्यो मङ्गलानि गायन्ति / ) पुरोधाः-(वधूवरं प्रति) प्रदक्षिणीकुरुतां भगवन्तं परिणयनसाक्षिणमाशुशुक्षणिम् /Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98