Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 32
________________ 15 कौमुदीमित्राणन्दरूपकम्। पाशपाणिः-( सहकारमवलोक्य कुन्दप्रभं प्रति) परदारविप्लवकारी दुरात्मा खेचरापसदः कथं क्वचिदपि गतवान् ? / अरे मत्र्यो ! जानीतं तस्य दुरात्मनः प्रवृत्तिम् / उभौ-(सभयम् ) किमपि न जानीवः। पाशपाणिः-(विमृश्य ) यथेयं वज्रकीलसङ्कुला विलोक्यते भूमिस्तथा व्यक्तमनयोर्मर्त्ययोः शल्यसमुद्धारप्रयोगः। (पुनः साटोपं वज्रकीलानादाय मित्राणन्दं केशैर्गृह्णाति।) (मैत्रेयः प्रतिभयेन मूच्छति / ) मित्राणन्दः-(धैर्यमवलम्ब्याऽऽत्मगतम् ) परोपकारः क्रियते स्वस्य कल्याणहेतवे।। ततोऽपि यद्यकल्याणं कल्याणात् तत् पदं परम् // 13 // तदतः परं भगवतो नाभेयस्य पादाः शरणम् / पाशपाणिः- अरे मापसद ! निजस्य दुर्विलसितस्य फलमनुभव / ( इत्यभिधाय सहकाराभ्यर्णमुपनयति / ) (नेपथ्ये) प्रसीद पयसांपते ! श्लथय कौमुदीभरि त्रिलोकभयकर्मणी हृदय-नेत्र-वाग्विक्रियाम् / अमी ननु तपोधना जनविहारवन्ध्ये भव त्प्रभावमथितापदः प्रतिवसन्ति घोरे वने // 14 // पाशपाणिः-कथमयं कुलपतेरनुजो गजपादः / (प्रविश्य) गजपादः-यादसांनाथ ! कोऽयं निजे जामातरि क्रोधोद्धोधविप्लवः / पाशपाणिः-(सलजं मित्राणन्दं विमुच्य) मुने! कथमयं कुलपतेर्जामाता। गजपादः- दत्ताऽस्मै कुलपतिना युष्मत्पुत्री कौमुदी / विवाहमङ्गलमप्यद्यप्रातीनं तदपि युष्माभिरनुष्ठेयम् / कुन्दप्रभः - जलधिपरमेश्वर ! अपरोऽपि मनुष्यो न पात्रं भवत्क्रोधप्रबोधस्य, किं पुनरयं कुलपतेर्जामाता ?, तदयं विशेषतो यादसांनाथस्य प्रसादातिरेकं कमप्यर्हति / पाशपाणिः- एतस्मै प्रयच्छ तर्हि तां कल्पलतां कण्ठिकां येनायं कौमुदीनेत्रयोर्महोत्सवमुपनयति / __(कुन्दप्रभः कण्ठिकामुपनयति / ) पाशपाणिः- गजपाद ! जामातरमादाय प्रयाहि पर्णशालायाम् / वयमपि करणीयान्तरमनुतिष्ठामः। ( इति निष्क्रान्ताः सर्वे / ) // द्वितीयोऽङ्कः समाप्तः॥ ->0

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98