Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 35
________________ महाकविश्रीरामचन्द्रसूरिविरचित मैत्रेयः- कुन्दलतिके ! अयमपि तस्य त्वदुपनीतस्य मणेः सत्प्रसादो यदयं महौषधिवलयसुभगम्भविष्णुर्वामेतरो मे बाहुः। मित्राणन्दः-(सोत्कण्ठं कौमुदीवदनमवलोक्य ) मैत्रेय ! रात्रिन्दिवं विजयिनो हरिणेक्षणानां, वक्रस्य मैत्र्यमनुरुध्य विलाञ्छनस्य / नीलोत्पलानि यदि हासमुपाश्रयेयु___ऑयेत किं वद तदा जडजप्रवादः ? // 8 // कौमुदी-( अपवार्य ) सहि ! अज्ज केणावि कारणेण सत्थवाहकुमारो अमयघडिओ व्व सोहग्गमइओ व्य मुत्तिमओ व्व भयवं पंचबाणो मे लोअणाणं पडिहासदि / ता किं एसो अपुरवो को वि?। कुन्दलताऐसो सो चिअ दइएसु घडइ सोहग्गचंगिमगुणाई। चंदो चिअ जणइ वाणीसु कठिणबंधेसु सलिलाइं (1) // 9 // मित्राणन्दः--प्रिये! वक्रं शीतरुचिर्वचांसि च सुधा, दृष्टिश्च कादम्बरी, बिम्बोष्ठः पुनरेष कौस्तुभमणिर्मूर्तिश्च लक्ष्मीस्तव / श्रद्धालुयुगपद् विलोकितुमयं खापत्यजातं चिरा देकस्थं विरचय्य कुन्दरदने ! त्वामर्णवः सूतवान् // 10 // अपि च त्वं कौमुदी सुदति ! गात्रमिदं च पुष्प___ चापाभितापपरिवापनिपीतसौस्थ्यम् / अङ्गेन ते सुखयतस्तदिदं विधातुः, . सर्गक्रमो भगवतो जगतां प्रतीपः॥११॥ कौमुदी-(स्वगतम् ) जं भोदि तं भोदु / अहं एदेण सह गमिस्सं / (प्रकाशम् ) वणनिवासपसाएण मुद्धा खु अहं न विचित्तभणिदीओ जाणामि / एदं उण किं पि संखेवेण मंतेमि–अवरसत्थवाहपडिवत्तिविवरीदाए पडिवत्तीए तुमं पिक्खिस्सं / अओ वरं जं ते पडिहाइ तं करिज्जासु / 1) सखि ! अद्य केनापि कारणेन सार्थवाहकुमारः अमृतघटित इव सौभाग्यमय इव मूर्तिमय इव भगवान् पञ्चबाणः मम लोचनयोः प्रतिभासते। तत्किमेषोऽपूर्वः कोऽपि / 2) एष स खलु दयितेषु घटयति सौभाग्यचङ्गिमगुणान् / चन्द्रः एव जनयति वाणीषु कठिनबन्धेषु सलिलानि (?) // 3) यदू भवति तद् भवतु / अहं एतेन सह गमिष्यामि / वननिवासप्रसादेन मुग्धा खलु अहं न विचित्रभणितीः जानामि / एतत्पुनः किमपि सङ्केपेण मन्त्रयामि-अपरसार्थवाहप्रतिपत्तिविपरीतया प्रतिपत्त्या त्वां प्रेक्षिष्ये / अतः परं यत् ते प्रतिभाति तत् क्रियताम् /Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98