Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 33
________________ . अथ तृतीयोऽङ्कः (ततः प्रविशति मित्राणन्दो मैत्रेयश्च / ) मित्राणन्दः-(स्मृत्वा ) मैत्रेय ! सत्यां यौवनभाजि तापसपतेः पुत्र्यां पुलोमात्मजा द विश्वपुरन्ध्रिरूपजयिनि व्यर्थ वहत्यात्मनि / दो वाऽस्तु दृशा निमेषकलुषप्रत्यासनिष्पङ्कया जातं तर्हि मृगेक्षणासु नियतं पाश्चालिकाश्चारवः // 1 // __(पुनः सानन्दम् ) अमृतजलधेः पुण्यैस्तैस्तैर्निमज्जितमूर्मिभिः मृदुभिरभितो देवस्येन्दोमरीचिभिरश्चितम् / . निजवपुरिदं मन्ये तस्याः कुरङ्गकचक्षुषो। विरतिविमुखैः स्निग्धैर्दिग्धं कटाक्षनिरीक्षितैः॥२॥ (विमृश्य ) यतः प्रभृति भगवतः पाशपाणेस्तां कल्पलतां कण्ठिकामधिगतवानस्मि ततः प्रभृत्येव कौमुदीसम्पकेपर्वणि कथङ्कारमतितरामुत्कण्ठते चेतः / तदवगच्छ किमत्र निदानम् / मैत्रेयः-स्त्री-पुंसयोर्मन्मथोन्मादैककार्मणं कण्ठिकायाः प्रभावातिशय एवात्र निदानम् / तदेहि पर्यालोचयितुं तां कौमुदीमुपवनाभ्यन्तरे क्वचिदपि मृगयामहे / (नेपथ्ये) खणदिद्वजणणिमित्तं बंधुअणं परिचिअं हिअकरं च। मिल्लंतीणं महिलाण मुणइ जइ माणसं बंभो // 3 // मित्राणन्दः-(आकर्ण्य ) कथमयं लतागृहाभ्यन्तरे कौमुदीध्वनिः / (विलोक्य) मैत्रेय ! कौमुदी कुन्दलता चात्रैव तिष्ठतः / तत् तावत् तिरोहिता एव क्षणं शृणुमो वयमनयोः सङ्कथाम् / - (ततः प्रविशति कौमुदी कुन्दलता च / ) कौमुदी-( सकैतवम् ) अहवा निसग्गचंगंगसन्निवेसाहिं विचित्तभूसणाहिं नगरविलासिणीहिं विलुत्तहिअयस्स तस्स को नाम अम्हारिसीसु दरिदकन्नगासु अणुराओ / ता निप्फलो चेअ मे एस बंधुअणपरिच्चाए पारंभो। 1) क्षणदृष्टजननिमित्तं बन्धुजनं परिचितं हितकरं च / मुञ्चतीनां महिलानां जानाति यदि मानसं ब्रह्मा / 2) अथवा निसर्गचङ्गाङ्गसन्निवेशाभिर्विचित्रभूषणाभिर्नगरविलासिनीभिर्विलुप्तहृदयस्य तस्य को नामास्मारशीषु दरिद्रकन्यकासु अनुरागः | तन्निष्फल एव ममैष बन्धुजनपरित्यागे प्रारम्भः /

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98