Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________ महाकविश्रीरामचन्द्रसूरिविरचितं कुलपतिः-कोव भोः!? / पाद्यं पाद्यम् , अधैर्घः। . (प्रविश्य तुन्दिलः सर्वमुपनयति / ) कुन्दलतिका- अय्ये ! एदस्स निअदइअस्स नहि नहि अदिघिणो विधेहि आदिधेई / (कौमुदी कृतकसात्त्विकभावान् नाटयन्ती आतिथ्यं प्रथयति / ) कुलपतिः-वत्से! कोऽयमपूर्वोऽतिथिदर्शनेन प्रतिभयप्रथितः खेदकम्पोपप्लवः? ततः खस्थीभूय सर्वमप्याचर / अयं खलु ते प्राणितस्यापि स्वामी, किमङ्ग! पुनरपरास क्रियाणाम् / मित्राणन्दः-(सानन्दं मैत्रेयं प्रति) सुमेधा निश्चितं वेधाः साधूनामानुकूलिकः।.. जाने यानस्य भङ्गोऽयमस्माकं श्रेयसी क्रिया // 19 // (नेपथ्ये) भो भो आश्रमकर्मपटवो बटवः ! प्रमार्जयत होमगृहाङ्गणानि, प्रज्वालयत जातवेदसः, सन्निधापयत समिधः, ननु इदानीं कुलपतेः प्रदोषसन्ध्यासवनसमयः। मैत्रेयः-(सभयमात्मगतम् ) कथमुत्थानसमयः कुलपतेः 1 / (प्रकाशम् ) भगवन् ! एतावत्यपि सार्थवाहप्रयोजने किंनिमित्तोऽयं कालविलम्बः / गजपादः-(कुलपतिं प्रति सकैतवम् ) यदभिधत्ते सार्थवाहस्तदस्तु। . कुलपतिः-(मित्राणन्दं प्रति सविषादमिव ) भवत्प्रेमाईचेतसो वयं किं नानुतिष्ठामः ? / तदुत्तिष्ठ, स्वयमेव विमुञ्चोटजाभ्यन्तरे स्वमुद्रामुद्रितं द्रविणजातम् / वत्से कौमुदि ! दर्शय सार्थवाहस्पोटजाभ्यन्तरम् / कौमुदी-ईदो इदो सत्थवाहे / / (उभौ मध्यप्रवेशं नाटयतः / ) कौमुदी-(सकपटम् ) अजउत्त! (पुनः सलज्जम् ) सत्थवाह! अत्थि बहु मंतिदव्वं, परं दाणि नावसरो / एदं खु संखेवेण मंतेमि-अप्पा मए तुह समप्पिदो, अओ वरं जं ते पडिहासइ तं करिजासु / मित्राणन्दः-(सरोमाञ्चम् ) आर्ये ! मयाऽपि धनं जीवितं च तवोपनीतम् , अतस्त्वमपि यदभिरुचितं तद् विदध्याः / 1) आर्ये ! एतस्य निजदयितस्य नहि नहि अतिथेर्विधेहि आतिथेयीम् / 2) इत इतः सार्थवाही।। 3) आर्यपुत्र!, सार्थवाह ! अस्ति बहु मन्त्रयितव्यम्, परमिदानीं नावसरः / एतत् खलु सरूपेण मन्त्रयामि-आत्मा मया तुभ्यं समर्पितः, अतः परं यत् ते प्रतिभासते तत् क्रियताम् /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ee58ce902da17492d8d64c94c8b379fbeb759530d27f0a1c18543fa5b35bb789.jpg)
Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98