Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 24
________________ कौमुदीमित्राणन्दरूपकम् / (प्रविश्य तापसी प्रणमति / ) कुलपतिः-वत्से कुन्दलतिके ! द्रुततरमाह्वय कौमुदीम् / (तापसी निष्क्रान्ता / ) (प्रविश्य कृतोष्णीषः) वणिग्-भगवन् ! प्राप्ता देशान्तरादपरे सहायाः, तदुपनय न्यासीकृतं वित्तम् / गजपादः-(सावहेलम् ) यथैव त्वया मुक्तं तथैवोटजाभ्यन्तरे गत्वा गृहाण / ( वणिग् मध्यतो वित्तमादाय कुलपति प्रणमति / ) कुलपतिः-वत्स ! यथावद्धमेव प्राप्तं त्वया द्रविणम् ? / वणिग-किमिदमनात्मोचितमुच्यते ? / दुस्तपतपःपरिकलितस्वर्गा-ऽपवर्गशर्मणो भगवतः पांशुप्रायेषु मर्त्य कीटानां विभवेषु को नाम नामः सम्भवति ? / तद् व्रजामि युष्मत्प्रभावप्रत्यस्तप्रत्यूहव्यूहः स्वपुरीम् / कुलपतिः-(सप्रश्रयमिव ) शिवास्ते पन्थानः। . (वणिग् निष्क्रान्तः / ) मित्राणन्दः-भगवन् ! सफलता प्रयातु मे प्रार्थनालेशः / (प्रविश्य ) कुन्दलता-[भगवन् ! ] कौमुदी प्रणमति / मित्राणन्दः-(मैत्रेयं प्रति) सैवेयं वनिता यां दोलाधिरूढामपश्याम / (पुनः साश्चर्यम् ) केयमनभ्रा नेत्रोत्पलानां सुधावृष्टिः / कुलपतिः- वत्से कौमुदि ! समानवयः-शीला-ऽऽकारधारिणः सार्थवाहतनयस्यास्य वयं प्रथय महतीमातिथेयीम् / कौमुदी-(तिर्यगवलोक्य स्वगतम् ) केटरि ! अंगचंगिमा, अहो ! विलासविअडिमा, अरिरि ! सुहवत्तणं / (पुनः साश्चर्यम् ) [सहलो ए] दस्स दंसणेण मणुस्सजम्मो। (पुनः सदुःखम् ) ईदिसो वि तादस्स सिणेहेण मए वावाएअव्यो?, धी धी! भुवणरयण. विणासणं मे जीविदनिम्माणं / मित्राणन्दः- ( अपवार्य साभिलाषं मैत्रेयं प्रति ) अधिकुचतट पौष्पं दाम श्रुती किसलार्चिते - बिसवलयिती पाणी श्रोणीलता रसनाश्चिता। तदपि च वपुर्लक्ष्मीरस्याः स्फुरत्यपदं गिरां प्रकृतिसुभगे पाने वेषो यदेव तदेव वा // 18 // 1) कटरि ! अङ्गचङ्गिमा, अहो ! विलासवैदग्ध्यम् , अरेऽरे ! सुभगत्वम् / [ सफलमे] तस्य दर्शनेन मनुष्यजन्म / ईदृशोऽपि तातस्य स्नेहेन मया व्यापादयितव्यः ?, धिगू धिग् ! भुवनरत्नविनाशनं मे जीवितनिर्माणम् /

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98