Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 22
________________ कौमुदीमित्राणन्दरूपकम् / गृहमेधिनः / इदं च प्रशान्तविरोधाभिधानमाश्रमपदम् / घोरघोणो नाम कुलपतिः सततमधिवसति / तदागच्छत यूयम् / पश्यत ब्रह्माण्डमाण्डोदरसञ्चरिष्णुयशस: कुलपतेनिःशेषकल्मषच्छिदालङ्कर्मीणां क्रमाम्भोजयुगलीम् / . (सर्वे आश्रमाभिमुखमुपसर्पन्ति / ) मित्राणन्दः-(साश्चर्यम् ) जीर्यत्कर्कटपच्यमानचरवः संरक्ष्यमाणोटज द्वारास्तर्णकपडिभिः शुककुलैरध्याप्यमानद्विजाः। एते ते स्थगयन्ति होमसुरभीहम्भापरीरम्भण स्फारोद्गारिभिरध्वरस्तवरवैर्दिग्मण्डलीमाश्रमाः॥१४॥ तुन्दिलःनासान्तस्थितलोचनो गुरुजटाजूटाटवीमेखला नीडान्तः कलविङ्ककेलिकलहैालोलमत्राक्षरः। विश्रम्भभ्रमदेणशावककुलव्यालेहनिर्लेपित__स्कन्धोर:-कर-पाद-भालतिलकः सोऽयं पुरस्तान्मुनिः // 15 // वामतश्चायं कुलपतेरेव भ्राता गजपादः / (ततः प्रविशन्ति कुलपतिर्गजपादप्रभृतयश्च तापसाः / ) तुन्दिलः-(अपवार्य ) प्रभूतप्रधानधनाविवैतौ लक्ष्येते / कुलपतिः-तर्हि सुतरां नः सम्भ्रममर्हतः / (उभौ प्रणमतः / ) गजपादः-(सादरमिव ) इदमासनमास्यताम् / कुलपतिः-( सप्रसादमिव मित्राणन्दं प्रति ) अस्तु खस्ति शुभोदयाय भवते सन्दृष्टयूयं वयं __जाताः साम्प्रतमद्भुतामृतरसव्यासेकहप्यदृशः। कुत्रत्योऽसि ? किमर्थमद्य स भवानस्माकमत्राश्रमे सम्प्राप्तः ? प्रथयामि सामसुभगां कामातिथेयीं त्वयि ? // 16 // - मित्राणन्दः-( सविनयम् ) भगवन् ! कौतुकमङ्गलनगराधिवासिनः क्रमागताद्भुतवैभवस्य जिनदासनाम्नः परमधार्मिकप्रकाण्डस्य वणिजो मित्राणन्दनामा सूनुरहम् / अयं चास्मत्पुरोहिततनयः शकुन-मत्रकुशलो मैत्रेयः / उन्मीलितयौवनश्चाहं प्रभूतद्रविणोपार्जनाश्रद्धालुरतन्द्रालुना समानकुल-शील-विभवेन मकरन्दनाम्ना बालवयस्पेन समं यानपात्रमधिरूढः।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98