Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 23
________________ महाकविश्रीरामचन्द्रसूरिविरचितं कुलपतिः-सुपन्थाः समाश्रितस्तत्रभवता भवता / निजभुजदण्डाम्यां हि वणिजां द्रविणोपार्जनं मण्डनम् , न तु खण्डनम् / मित्राणन्दः-अवगाह्य च मध्यमुदन्वतो भगवतः प्रवहणे विशरारुतामधिगतवति गृहीतवापतेयसारः. कल्लोलान्दोलितं मैत्रेयेण साधं फलकमेकमधिरूढः सप्तभिरहोभिरहं पारमधिगतवान् / मकरन्दस्य तु किमपि वृत्तमिति न जानीमः। कुलपतिः-महाभाग! प्रशस्तलक्षणो भवान् नाऽऽस्पदं विपदाम् , अतः समुपार्जितप्रभूतद्रविणो ध्रुवं सङ्घटिष्यते ते परमप्रेमपात्रं मित्रं मकरन्दः। मैत्रेयः- यदादिशति कुलपतिस्तदस्तु / (नेपथ्ये) हहो बटवः! प्रवर्तयत वर्णाश्रमजुषामतिथीनां सपर्यार्थ यथौचित्यं पशुविशसनानि / मित्राणन्दः-( अपवार्य सोद्वेगम् ) मैत्रेय ! कोऽयमुभयलोकप्रतिपन्थी पापव्याहारः। धिक् तानमुष्य सुहृदो नरकैकमार्गान ___यैः शास्तृभिः पशुवधोऽयमिहोपदिष्टः। तानप्यमून् मुनिमिषश्वपचान् विचार वन्ध्यान् धिगेव खलु यैरयमातश्च // 17 // ( पुनः कुलपतिं प्रति ) अशेषमपि कल्याणमस्माकं कुलपतिमिश्राः सम्पादयिष्यन्ति / साम्प्रतं पुनरिदमेवातिथेयमर्थयामहे / कुलपतिः-( ससम्भ्रमम् ) किं तत् / . मित्राणन्दः-अस्ति नः कियानपि द्रविणसारः, तं तावदात्मसात् कुर्वतां कुलपतिपादाः यावद् वयं स्वनगरं प्रति प्रतिष्ठामहे / गजपादः- कोत्र भोः ! ? / ___ (प्रविश्य ) खर्वशाखः- भगवन् ! एषोऽस्मि / __ (गजपादः खर्वशाखस्य कर्णे एवमेव / ) (खर्वशाखो निष्क्रान्तः / ) कुलपतिः-महाभाग! निर्विण्णा वयं भिन्नयानपात्राणां वणिजां निक्षेपसंरक्षणेन, तदियमास्तां कथा / सञ्जातपाणिग्रहणोऽसि न वा? येन तदुचितां कामप्यातिथेयी माचरामः। मैत्रेयः-भगवन् ! असञ्जातपाणिग्रहण एवायं सार्थवाहसूनुः। . कुलपतिः-(विमृश्य ) कात्र भोः! तापसीषु 1 /

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98