________________
कातन्वव्याकरणम्
जूनमासे घोषितवती सम्पादकाय । एवं स्मर्यते - वन्दनीयानां न्यासाध्यक्षमहोदयानामाचार्यश्रीवियानन्दमुनिराजमहात्मनां भक्तजनैरनुयायिभिः कातन्त्रव्याकरणमधिकृत्य कश्चित् 'पत्रव्यवहारो मया सह प्रवर्तित आसीत् त्रयोदशवर्षपूर्वम् (१९८५ - ८६ यीशवीयवर्षयोः)। ततो जानामि जैनसम्प्रदायस्य कातन्त्रव्याकरणेऽनुरागविशेषव्यवहारं मदीयग्रन्थावलोकनतत्परतां च |अद्यावधि मम सम्पादकत्वे कातन्त्रव्याकरणस्य ग्रन्थचतुष्टयी अनुसंधानप्रधानाः षोडशलेखाश्चापि संप्रकाशिताः संजाताः । साम्प्रतमहमनुसन्धानाध्यापनजीवने दशग्रन्थानां पञ्चाधिकशतसंख्याकानामनुसंधाननिबन्धानां च प्रकाशनेनात्मानं कृतिनं मन्ये ।
उक्तपुरस्कारेण सम्माननाय संस्थां तदधिकारिवगं च प्रति सविनयमहमात्मनः कृतज्ञतां विज्ञापयामि ।जैनशासनरतानां न्यासाध्यक्षमहोदयानामाचार्यप्रवराणामाशीभिः कातन्त्रप्रकाशनरूपं महनीयं कार्य कार्येन यथाशीघ्रमेव सम्पत्स्यते इति संभावनयाऽहं तान् प्रति प्रणतिपरायणोऽस्मि । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतिपदभाजां चयनसमितेरध्यक्षतामधिकुर्वतां च माननीय - डॉ० मण्डनमिश्रमहाभागानां कुन्दकुन्दभारतीट्रस्टसंस्थाया मन्त्रिपदमलंकुर्वतां स्वनामधन्यानां श्रीमतां सुरेशचन्द्रजैनमहाभागानां चावसरेऽस्मिन् स्मरणं तेभ्यो धन्यवादविज्ञापनं च परमं श्रेयस्करं मन्ये । प्रथमभागस्य समीक्षाकारो डॉ० सुदीपजैनमहोदयः कार्यमिदमितिहासनिर्माणकर
१. (क) श्रीज्ञानचन्द्र जैन, प्राचार्य - शासकीय उ० मा० वि०, माधवगढ़ - सतना ।
दि० ५/११/८५, (ख) डॉ० स्नेह रानी जैन, सागर वि० वि० । दि० २८/१/८६,
(ग) डॉ० स्नेह रानी जैन, सागर वि० वि० । दि० १८/३/८६ २. द्र०, प्राकृतविद्या त्रैमासिकी पत्रिका - 4० १० अं० १
(अप्रैल - जून १९९८ई०), पृ० ८८ - ९० 'व्याकरणशास्त्र के इतिहास में यह अत्यन्त श्रम एवं निष्ठापूर्वक किया गया अद्भुत कार्य है, जो अपने आप में एक 'इतिहास बनाने वाला' कार्य सिद्ध होगा |