Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 21
________________ प्रथमो गुच्छक इति रघुवशम् । तस्या तीर तटम् । समाससाद प्राप ॥१०॥ तत्र पुण्येष्वरण्येषु विचरन्नग्रे क्रौञ्चस्त्रीपु सयोरेक पुमास मन्मथमोहित निषादशरसिद्ध शोणितपरीताङ्ग भूतले पिलुठन्त ददर्श ॥११॥ तत्र ति । क्रौञ्चौ चक्रवाकौ, स्त्री च पुमाश्च इति स्त्रीपु सौ। 'अचतुरे'ति साधु । तयो । निषादस्य व्यावस्य शरेण विद्ध ताडितम् । शोणितेन क्षतजेन परीतानि आ'लुतानि अङ्गानि यस्य तम् । ददर्श आलुलोके ॥११॥ त तथा चेष्टमान पश्यतस्तस्य दयानिधेह दयालीनः शोकानलप्रवर्तितः साक्षात्करुणरस एच 'मा निषाद । प्रतिष्ठा त्वमगमः शाश्वतीः समा । यत् क्रौञ्चमियुनादेकमवधीः काममोहितम् ।' इति श्लोकच्छलेन निःससार ॥१२॥ तमिति । तथा चेष्टमानम् । चेष्ट चेष्टायाम् । कर्तरि शानच् । क्रोशन्तमिति यावत् । दयते अनया इति दया । दय रक्षणे। षिद्भिदादिभ्योऽड् । निदवाति अस्मिन् निधीयतेऽसाविति वा निधि । 'कर्मण्यधिकरणे च' इति कि । दयाया अन्त करणधर्मविशेषस्य निधि तस्य । हृदय मानसम् आलीन आरूढ । शोक एप अनल परपीडासहिष्णुतया सतापजनकत्वेन दहन तेन प्रवर्तित सचारित । सा क्षान् मूर्त । करुणरस एव तदाख्यरसविशेष एव । इति श्लोकच्छलेन'मा निपाद-' इति काव्यससारे प्राथमिको य श्लोकस्तच्छलेन व्याजेन । नि ससार प्रादुरास । अत्र ध्वनिकार - __ 'काव्यस्यात्मा स एवार्थस्तदा चाढिकवे पुरा । कौञ्चद्वन्द्ववियोगोत्थ शोक श्लोकत्वमागत ॥' इति विविधविशिष्टवाच्यवाचकरचनाप्रपञ्चचारुण काव्यस्य स एवार्थ सारभूत सनिहितसहचरीविरहकातरक्रौञ्चाक्रन्दजनित शोक एव श्लोकतया परिणत इत्यर्थ ।' ( ध्वन्या १ उद्यो ) इति । ‘मा निषाद-' इति श्लोकार्थस्तु रे निषाद । व्याध । निषीदति मन पाप वा अस्मिन्निति । पद्-घञ् । निष्करुणेत्यर्थ । व शाश्वती निरन्तरा । शश्वद् भव अण , ततो डीए । ना | समा वत्सरान् । द्वितीयाबहुवचनम् । समाशब्दो नित्य बहुवचनान्त । तथाचसवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समा' । इति । तत्प्रायोऽभिप्रायेण ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166