Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१४८
चतुर्थो गुच्छक
यन्मध्यम्, यथाक्रमम्
द प प्रसिद्ध तद् ब्रह्मणो रूपमित्यर्थं । तथाच तैत्तिरीयाणामुपनिषदि अन्नमयादीना कोशानाम् आन्तरम् आनन्दमय- 'तस्य प्रियमेन शिर - मोदो दक्षिण पक्ष प्रमोद उत्तर पक्ष आनन्द आत्मा, ब्रह्म पुच्छ प्रतिष्ठेति' तस्याप्यान्तर ब्रह्म दर्शितम् । वृहदा रण्यके च-द्वे गाव ब्रह्मणो रूपे मूर्त चैवामूर्त चेति' प्रस्तुत्य - 'तस्य मूर्तस्यैष रसो य एष तपति, तस्यैतस्यामूर्तस्यैष रसो य एतस्मिन् मण्डले पुरुष' इति प्रदर्श्य-'अथात आदेशो नेति नेतीति मूर्तामूर्तारोपाधिष्ठान तदन्तर ब्रह्म तन्निषेधेन दर्शितम् । 'प्रतिबोधविदित मतम्' इति तवलकाराणामुपनिषदि ब्रह्मण सर्वबुद्धिवृत्या श्रातरत्वमुक्तम् ||८७||
यतो जगदुद्दतीव नित्यानुदितरूप्यपि ॥ विभिन्न दिवा भिन्न तद्रूप परमार्थकम् ||८||
( इति कल्पान्तावशिष्टपरमभावदर्शनम् )
यतो जगदुदेतीति । परमार्थक वास्तविक्रम् | अन्यत् पूर्वमवोचामेति रु पुनरास्ते ||
( इति कल्पा तारशिष्ट परभावदर्शनम् )
तुल्यस्यातुलभानस्य भावकैः किल तोलनम् ॥ अनन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि ॥ ८६ ॥
तुल्यस्येति । तुल्यस्य उपमातुम् इष्टस्य, दृश्यस्य, उपमेयबहिभूततुलाया अलाभेन, उपमातुमशक्यस्य भानस्य, उपमेयकोटिप्रविष्ट भावकै यत तोलनम् उपमावचन तद् अनन्वयालका रोदाहरणभूता यथा उक्तिस्तथैव । यथा—गगन गगनाकार सागर सागरोपम ।' इत्युक्तिग्नुपमत्वे पर्यवस्यति, तथैव स्यात्-इति न विकल्पकल्पनादृष्टान्त । अतो जगत पृथक्सत्ता तथैव यथा बन्ध्यापुत्रसत्तेति । असत सद्द्दष्टान्तादर्शनेऽपि असद्दृष्टान्तता न विरुध्यते । वन्ध्यापुत्र इव खपुष्पमसदित्युक्तिदर्शनात् ॥ ८६ ॥
आकाशे च यथा नास्ति शून्यल व्यतिरेकवत् ॥
जगच्च ब्रह्मणि तथा रघूत्त सोपलब्धिमत् ॥६०॥
आकाश इति । व्यतिरेको भेदस्तद्वत् । उपलब्धिमद् उपलभ्यमानमपि ॥६०॥

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166