Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१४६
चतुर्थो गुच्छक स्थितमिति । यथा स्यग्नादौ स्थिते एर स्वग्नोऽयमिति परिज्ञाने स्वप्न सत्यत्वभावना अस्तमेति तद्वत् ।।७।।
तदिद ज्ञायते ह्यस्मिज्ञानकोशेऽपधारिते ।।
तज्जीवन्मुक्तिसाम्राज्यमौख्य यत्रानुभूयते ॥७६।। तदिदमिति । पिनेयानामभिमुखीकरणार्थ प्ररोचनावाक्यमिवेद ब्रह्मविषयकज्ञानप्रशसापरम् । ७६ ।।
बोधेकनिष्ठता यातो जाग्रत्येर सुषुप्तयत् ।।
य आस्ते व्यवहन स जीवन्मुक्त उच्यते ॥८॥ बोधैकनिष्ठतेति । यो व्यवहां सन्नपि-'नैव किचित् करोमीति युक्तो मन्येत तत्त्ववित्' इति भगवदुक्तदिशा जाग्रत्यपि सुप्तवन्निर्विकार आस्ते स जीवन्मुक्त ।।८०॥
यस्य नाहकृतो भावो यस्य बुद्धिर्न लिप्यते ॥
कुर्वतोऽकुर्वतो वापि सजीवन्मुक्त उच्यते ।।८१।। यस्य नाहमिति । न लिप्यते कर्तृत्वाकर्तृत्वाभिमानाभ्यामित्यर्थ ।।८।।
जीवन्मुक्तपद त्यानत्त्वा काये कालनिमीलिते ।।
विदेहमुक्ततामेति मरुदस्पन्दतामिव ।।८२।। जीवन्मुक्तेति । कालेन निमीलिते अस्ते प्रारब्धक्षये सतीति यावत् । विदेह मुक्तता मुक्तिविशेष । विदेहाद् देहविगमाद् या शुद्वा मुक्तता सा ।
'तत कालवशादेव प्रारब्धे तु क्षय गते । वैदेहीं मामकी मुक्ति याति नास्त्यत्र सशय ॥' इति । मरुत् पवन । अस्पन्दताम् निश्चलताम् ।।२।। यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।।
मानसी कल्पना येन यस्य भासा विभासनम् ।।८।। क्रिया रूप रस गन्ध शब्द स्पर्श च चेतनम् ॥ यद् वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ ॥८४।। (युग्मकम् )
(इति परमकारणदर्शनम् )
तथाच

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166