Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 157
________________ १५२ चतुर्थो गुच्छक जगतः पञ्चक बीज पञ्चकस्य चिदव्यया ॥ यद् बीज तत् फल विद्धि तस्माद् ब्रह्ममय जगत् ॥१००॥ जगत इति । पञ्चक तन्मात्राणाम् । विद्धि जानीहि ॥१०॥ इत्थमेतत् पञ्चक महाकाशे सर्गादौ चिच्छत्त्या स्वागभूतात्मेव कल्प्यते न पुन. पारमार्थिकम् । अनेन यदपीद जगदुच्छ्रनता प्रतिपद्य पितन्यते तदप्यात्मन्याकाशात्मक सन्मयमेव । नहि कापि तत्सिद्ध नाम मन्यते यदसिद्धन साध्यते । यच्च तावद्विकल्पात्मक स्वरूप तत्खलु कथ सत्यतामियात् । अथ चेत् पञ्चक ब्रह्मात्मकधिया ब्रह्मास्ते तदा प्ररूढ जगदपि ब्रह्मव । यथा खलु सर्गादाविद पञ्चक कार्यभूतत्वे कारणतामुपगत तथैवेदानीमपीति कि चित्रम् । इत्थहि न जायते किंचिजगज्जाल नवा लक्ष्यते, सकल्पपुरमिवासदेव ब्रह्माकाशे स्वात्मनि जीवाकाशत्व सदिव प्रतीयते । जीवाकाशोऽसौ स्वमेव तस्मिन् परमेश्वरेऽणुतेज कणोऽस्मीति यत्स्वय चेतति तदेवोच्छ नमिव विभावयति--||१०१॥ इत्थमेतदिति । चिच्छक्या चेतनप्रथनशक्त्त्या। स्वागभूतात्मा इव स्वशरीरमिव सपन्नस्वरूप । एतत् पञ्चक त मात्रपञ्चक कल्प्यते । अनेन पञ्चकगणेन यदपीद स्थूल जगद् वितन्यते विस्तार्यते । आत्मनि आकाशरूप मिव स्वकल्पनाधिष्ठानात्मनि स्थितत्वात् सन्मयम्-न स्वत इत्यर्थ । पञ्चक तत्कार्यस्थूलभूतपञ्चकमपि चिद् ब्रह्मव। कारण कार्ययोरेकत्वप्रसिद्धहेतोरि त्यर्थ । प्ररूढ जगत् त्रिजगत्क्रम ब्रह्मवैति सिद्धम् । भूतत्त्वे पौर्वकालिकत्वे स्वयम् औत्तरकालिक स्व प्रत्येवेति शेष । कि चित्रम्-को विस्मय । जग ज्जातम् । ब्रह्माकाशे महाकाशरूपे परमप्रकाशे आत्मनि जीवाकाश सदिव असत्सदिव प्रतीयते अनुभूयते । जीपाकाश समष्टिजीपाकाश-तस्मिन् परमेश्वर कल्पित । विस्तृतमपि स्वम्, अणुनेज कण -अणुः अल्पनर स्फुलिङ्गवत् तेज कणोऽस्मीति चिन्तया तथैवात्मान चेतति अनुभवति । एत देवाभिप्रेत्य श्रयते- 'यथा अग्ने क्षुद्रा पिस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मन सर्व एत आत्मानो व्युच्चरन्तीति' इति ॥१०१॥ असदेव सदाकार जीवः सकल्पचन्द्रवत् ॥ चिन्तया चिन्तयन् द्रष्टऋदृश्यरूपतया स्थितः ॥१०२॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166