Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 150
________________ चतुर्थो गुच्छक १४५ यदेतदिति । जन्मजङ्गले जन्मने । जन्मग्रहण शरीरसङ्घोपलक्षणार्थम् । विशीर्ण गलित । उशन्ति इच्छन्ति । वश कान्तौ । कान्तिरिन्छा । कर्तरि लट् ॥७२॥ जीव एव हि ससारश्चेतना दुःखसततिः ।। ज्ञातेऽस्मिन् नापि विज्ञात किंचिद् भवति सुव्रत ! ||७३|| ज्ञायते परमात्मा चेत् सर्वा दुःखस्य सततिः ।। प्रणश्यति विषावेशशान्तानि विषूचिका || ७४ ।। जीवेति । ज्ञायत इति च । द्वावपि स्पष्टाथ ||७४|| द्रष्ट्ऋदृश्यक्रमो यत्र स्थितोऽप्यस्तमय गतः ।। यदनाकाशमाकाश तद्र प परमात्मनः ॥७५॥। द्रष्ट्ऋदृश्येति । अनाकाशमाकाशम् - आकाशबाधेऽप्यपरिच्छिन्नत्वेनविषु लत्वादाकाशम् ||७५ ॥ अशून्यमिन यच्छून्य यस्मिन्शून्य जगत्स्थितम् ।। सगौघे सति यच्छून्य तद्र ूप ब्रह्मणो विदुः ||७६ || शून्यमिवेति । जगत् स्वभावशून्यमपि यत् सर्ववस्तुयाथात्म्य भूत स्वरूपेण पूर्णयाद् अणुमात्रेणापि अशून्यमित्र शून्यम् असदपि जगत् स्थितम् । सद्भावमापन्नमित्यर्थ । सर्वौघे - सर्गलक्षणा या यस्य तथाविधे अज्ञाने सति यत्सदपि अनुपयोगाच्छून्यमिव शून्यम् ||७६ || तज्ज्ञातमात्मनो रूप भवेन्नान्येन वर्त्मना || जगन्नाम्नोऽस्य दृश्यस्य स्वसत्तासंभव विना ||७७|| ( इति जगदादिश्य सत्ताप्रतिज्ञा ) तज्ज्ञातमिति । स्वसत्तासभत्र मिध्यात्व तन्निश्चयमिति यावत् ||७७ || ( इति जगदादिदृश्यासत्ताप्रतिज्ञा ) स्थितमेवास्तमायाति जगद्श्न विचारणात् ॥ यथा स्वप्नागमे स्वप्ने ज्ञाते सत्यत्वभावनम् ||७८||

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166