Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
चतुर्थो गुच्छक
१४३
क्लेशेति वृत्त्या जीवनसाधनसपत्त्या | लोकशास्त्राभ्याम् अविरुद्धया समतया । भोगगन्व भोगवासनाम् । तदभिनिवेशमिति यावत् ||६२||
यथाप्राप्तार्थमतुष्टो यो गर्हितमुपेक्षते ॥ साधुमगमसच्छास्त्रसे सद्यः स मुच्यते ||६४ ||
यथाप्राप्तेति । अर्थसतुष्ट वित्तैषणाशून्य । गर्हित शास्त्र, शिष्टेषु निन्दितम् । सद्य तत्क्षणम् - शीघ्र वा ॥ ६४॥
विचारेण परिज्ञातस्वभावस्य महामतेः || अनुकम्पया भवन्त्येते ब्रह्मन्द्रोपेन्द्रशकराः || ६५|| ( इति मुमुक्षु प्रयत्नोपदेशः )
विचारेणेति । परिज्ञातस्वभावस्य - परिज्ञात परिशीलित स्वभाव आत्मतत्त्व येन तस्य | अनुकम्पया कृपाभाज । उपेन्द्र विष्णु ॥ ६५ ॥ | ( इति मुमुक्षुप्रयत्नोपदेश )
एष सर्वमिद विश्व न विश्व चैष सर्वगः ॥ एष एको महान् देवो नहि विश्वाभिधास्ति दृक् ॥ ६६॥
एषेति । विश्वात्मत्वोक्तिरिति भान || ६६ ||
सर्वाधिष्ठानभावेन सर्वगतत्यमिति प्रतिपादनाय
चेतन राम ! ससारो जीव एष पशुः स्मृत. ॥ त उज्जिहते स्कारा जरामरणभीतयः ||६७॥
1
चेतनमिति । चेतनम् - चेतयते चेतति वेति व्युत्पत्ति | 'नन्दिग्रहि - ' (पा० सू० ३।१।१२) इति कर्तरि ल्यु । वाड् मन प्रारणकरणग्रामानुप्रविष्ट ब्रह्मव जीव । स च बहिर्मुखतया विषयानेव सारतया पश्यन् पशुरित्युच्यते । श्र अस्मादेव देहेन्द्रियविषयवासनानुसारात् तत्तद्देहपरिग्रहे स्फारा जरामरणभीतय उज्जिते । उत्पूर्वाद् 'ओहाड गतौ' इत्यत कर्तरि लट् । श्रन्तस्थिता विर्भवन्ति ||६७ ||
स्थूल शरीरातिरिक्ततया तज्ज्ञानादेव जरामरणादिप्रत्यय सिद्ध - ' अश रीवा वसन्त प्रियाप्रिये न स्पृशत ' इति श्रवणाद् इत्याशङ्का परिहरति

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166