________________
प्रथमो गुच्छक इति रघुवशम् । तस्या तीर तटम् । समाससाद प्राप ॥१०॥
तत्र पुण्येष्वरण्येषु विचरन्नग्रे क्रौञ्चस्त्रीपु सयोरेक पुमास मन्मथमोहित निषादशरसिद्ध शोणितपरीताङ्ग भूतले पिलुठन्त ददर्श ॥११॥
तत्र ति । क्रौञ्चौ चक्रवाकौ, स्त्री च पुमाश्च इति स्त्रीपु सौ। 'अचतुरे'ति साधु । तयो । निषादस्य व्यावस्य शरेण विद्ध ताडितम् । शोणितेन क्षतजेन परीतानि आ'लुतानि अङ्गानि यस्य तम् । ददर्श आलुलोके ॥११॥
त तथा चेष्टमान पश्यतस्तस्य दयानिधेह दयालीनः शोकानलप्रवर्तितः साक्षात्करुणरस एच
'मा निषाद । प्रतिष्ठा त्वमगमः शाश्वतीः समा । यत् क्रौञ्चमियुनादेकमवधीः काममोहितम् ।'
इति श्लोकच्छलेन निःससार ॥१२॥ तमिति । तथा चेष्टमानम् । चेष्ट चेष्टायाम् । कर्तरि शानच् । क्रोशन्तमिति यावत् । दयते अनया इति दया । दय रक्षणे। षिद्भिदादिभ्योऽड् । निदवाति अस्मिन् निधीयतेऽसाविति वा निधि । 'कर्मण्यधिकरणे च' इति कि । दयाया अन्त करणधर्मविशेषस्य निधि तस्य । हृदय मानसम् आलीन आरूढ । शोक एप अनल परपीडासहिष्णुतया सतापजनकत्वेन दहन तेन प्रवर्तित सचारित । सा क्षान् मूर्त । करुणरस एव तदाख्यरसविशेष एव । इति श्लोकच्छलेन'मा निपाद-' इति काव्यससारे प्राथमिको य श्लोकस्तच्छलेन व्याजेन । नि ससार प्रादुरास । अत्र ध्वनिकार -
__ 'काव्यस्यात्मा स एवार्थस्तदा चाढिकवे पुरा ।
कौञ्चद्वन्द्ववियोगोत्थ शोक श्लोकत्वमागत ॥' इति विविधविशिष्टवाच्यवाचकरचनाप्रपञ्चचारुण काव्यस्य स एवार्थ सारभूत सनिहितसहचरीविरहकातरक्रौञ्चाक्रन्दजनित शोक एव श्लोकतया परिणत इत्यर्थ ।' ( ध्वन्या १ उद्यो ) इति । ‘मा निषाद-' इति श्लोकार्थस्तु
रे निषाद । व्याध । निषीदति मन पाप वा अस्मिन्निति । पद्-घञ् । निष्करुणेत्यर्थ । व शाश्वती निरन्तरा । शश्वद् भव अण , ततो डीए । ना | समा वत्सरान् । द्वितीयाबहुवचनम् । समाशब्दो नित्य बहुवचनान्त । तथाचसवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समा' । इति । तत्प्रायोऽभिप्रायेण ।