________________
दशकएठवधम् पाणिनिराचार्यस्तु-'समा समा विजायते' (पा०५-२-१२ ) इति सूत्रयन्नेक वचनान्ततामस्य प्रतिपेदे । प्रतिष्ठा स्थितिम् । आश्रय चेत्यर्थ । अत्य तसयोगे द्वितीया। 'प्रतिष्ठास्थितिमाहात्म्ये' इति वैजयन्ती । मा अगम मा प्राप्नुहि ।
आशसाया भूतवच्चेति लुडतिदेश । न कदाचित् त्व निरुद्व गमेकत्रावास प्रास्यसीति तात्पर्यम् । अगम इत्यत्र छान्दसोऽडागम । काशिकाकारस्तु नाय माङ किन्तु मा शब्द एवेत्यडागम समर्थितवान् । दुर्घटवृत्तिका रेण पुन 'त्वम गम' इत्यत्र तुशब्द पुनरर्थे । मा शब्दस्य लक्ष्मीवाचिनो नया बहुब्रीहौ 'गोस्त्रियोरुपसर्जनस्य' (पा० १।२।४८) इति ह्रस्वे हे अम । अलक्ष्मीकेति निषादविशेषण मत्वा अडागमप्रसक्तिर्वार्यत इति विशेष । रामायणमञ्जर्यामा चार्यक्षेमेन्द्ररेण तु त्वमगमेत्यत्र 'त्वमालब्धा' इति पाठान्तरमुपकल्पयता सेय मनुपपत्ति समाहितेति सर्व यथायथमनुसधेयम् । यत् यस्मात् । त्व क्रौञ्चमिथु नात्-क्रुञ्च एन क्रौञ्च । स्वार्थे अण । तयोमिथुन दाम्पत्यरूप द्वन्द्वम्, तस्मात् । ल्यब्लोपे पञ्चमी । तमासाद्य त्यर्थ । एक पु रूपावयव काममोहित-कामेन रति क्रोडया मोहित रसावेशनिर्भरम् । अवधी हिंसितवानिति शापाभिप्रायकोऽर्थ ।
ब्रह्मण प्रसादाधिगत प्रथमोऽयमादिकवेर्वाड निष्यन्दो न केवल शापपर एन भवितुमर्हति यावन्मङ्गलार्थकोऽपीति मन्वाना पूर्वाचार्या भगवन्महिमा शसकत्वमायस्य वर्णयन्ति । तद्यथा--
निषीदत्यस्मिन्निति निषादो निवास , मा लक्ष्मी , तस्या निषादो मानिषाद श्रीनिवास , तत्सबुद्धि । त्व शाश्वती समा सर्पकाल, प्रतिष्ठा माहात्म्यम् अगम लभस्व । लकारव्यत्यय । यत् यस्मात् क्रौञ्चमिथुनाद् रावणमन्दोदरी रूपाद् राक्षसमिथुनात् । कामेन मोहित सीतापहर्तारम् । एक रावणम् अवधी । रावण हत्वा त्रैलोक्यसरक्षणपरस्त्व चिराय विजयस्वेति परमार्थ । वाक्यार्थहेतुक काव्यलिङ्गमलङ्कार । अत्र च सप्तकाण्डोपनिबद्ध रामायणीय कथाशरीरमपि भगयन्तरेणोपन्यस्त स्वयमुत्प्रेक्षितु सुशकमिति नेहायस्तम् । वाच्यलक्ष्यव्यङ्गय विधया श्लेषमर्यादया च तत्र तत्र सभवन्तोऽप्यर्था प्रतिपद व्याख्यातुमशक्या प्रेक्षावद्भि स्वयमुन्नेया इत्यल व्याख्याननिर्बन्धेन ॥
शकुनिशोकावेशेन मया किमिद श्रवणपेय व्याहारीति सविस्मय भरद्वाज ब्रुमाणो यथाविधि निहिताभिषेकस्तेनैवापूरितकलशीकेन पृष्ठतोऽनुगम्यमानः स्वाश्रम प्रतिपेदे ॥१३॥