________________
प्रथमो गुच्छक शकुनिशोकेति । शकुने चक्रवाकस्य शोकावेश शुचोऽवतर यस्य तेन । मया किमिद श्लोकरूप श्रवणाभ्या पेय श्रोत्ररसायन व्याहारि अभाषि । वि आङ पूर्वाद् हरते कर्मणि लुड । सविस्मय साश्चर्य यथा तथा भरद्वाजमुनि ब्रु वाण ब्रुवन् । ब ब व्यक्ताया वाचि । शानच । विधिमनतिक्रम्य यथाविधि | विहित अद्वैवतैर्मन्त्रै सपादित अभिषेक स्नान येन स । तेनैव भरद्वान मुनिना आपूरिता कलशी कुम्भिका येन तेन । 'नवृतश्च' ( पा० ५।४।१५३ ) इति कप । पृष्ठत पृष्ठभागे। अनुगम्यमान अनुस्रियमाण । स्वाश्रमपद निजावास स्थानम् । प्रतिपेदे आजगाम । पद गतौ । अत्र वेब्राह्मणोपनिषत्सु श्लोकारयस्य च्छन्दस प्रसिद्धत्वेऽपि तस्य रसप्राधान्यादाश्चर्यत्वोक्ति । अतएव महामुनेरादि कवित्वाख्यानमिति सर्व समञ्जसम् ॥ १३ ॥
तत्र तमर्थं ध्यायतो महामुनेः पुरस्तादितरत्र श्लोकोपलम्भमसहमान इव मन्त्रब्राह्मणलक्षणस्य ब्रह्मण उपवृहणस्थानमाम्नायकवयिता ब्रह्मा प्रादुर्बभून ॥१४॥
तत्रेदि । तमर्थ श्लोकात्मकम् । ध्यायत पुन पुनर्विचारयत । महामुने ल्मीके । पुरस्ताद् अग्रे । इतरत्र वेदेभ्योऽन्यत्र । श्लोकस्य पद्यस्य । उपलम्भम् उपलब्धिम् । असहमान अमर्षमाण । इवेत्युत्प्रेक्षायाम् । तथा चाचार्य दण्डीपठति
'मन्ये शङ्क ध्रुव प्रायो नूनमित्येवमादिभि ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृश ।' इति । ब्रह्मण' वेदस्य । उपवृ हणस्थानम् आविर्भावभूमि । वेदा हि कारणब्रह्मणा कार्यब्रह्मणश्चतुराननस्य हृदये प्रकाशिता । तत ऋषिमुनिषु विस्तर प्राप्ता । तथाच श्रूयते
'यो ब्रह्माण विदधाति पूर्व यो वै वेदॉश्च प्रहिणोति तस्मै । तह देवमात्मबुद्धिप्रकाश मुमुक्षुर्वै शरणमह प्रपद्ये ॥
_ (श्वेताश्व उप ६।१८) इति । स्मर्यतेऽपि
'युगान्तेऽन्तर्हितान् वेदान् सेतिहासान महर्षय । लेभिरे तपसा पूर्वमनुज्ञाता स्वयभुवा ।।' इति ।
(तैत्तिरीयसहिताभाष्यभूमि)