________________
दशकण्ठवधम् __ आम्नायाना वेदाना कवयिता कवनकर्ता । आम्नायन्ते श्रभ्यस्यन्ते इति आम्नाया । म्ना अभ्यासे । कर्मणि धम् । कवयतीति कवयिता । तृच । 'कविर्मनीषी परिभू स्वयभू -' इत्यौपनिषदी श्रुति । ब्रह्मा हिरण्यगर्भ । प्रादुर्बभूव आविर्भवतिस्म ।।१४॥
सादर पाद्याासनवन्दनः सत्कृतश्चासौ दशनज्योत्स्नया पुण्य पीयूषं पिकिरन्निव बल्मीकभुवमानभाषे-॥१५॥
मादरमिति । सादर गौरवपूर्वकम् । पादायार्घाय च वारि पाद्यम् अय॑म् । आसनम् विष्टरम् । वन्दनम् अभिवादन स्तवन च । तै । सत्कृत पूजितश्चासौ ब्रह्मा । दशनाना दन्ताना ज्योत्स्नया चन्द्रिकया। पुण्यमेव पीयूष सुधाम् । विकिरन् विक्षिपन् । इव । वल्मीकाद् भवतीति वल्मीकभू वल्मीकजन्मा। क्विप् । तम् । आबभाषे जगाद ॥१५॥
मुने ! करुणावतस्तर शोक एव सरससारस्वतप्रसरशसफ श्लोकत्वमापन्न । तन्नारदनिर्दिष्ट रामचरित रामायण विधीयताम् । एवमास्ता चिराय श्रुतिवहनपरिश्रान्ता सुधास्नपनशिशिरा सरस्वती । इत्याभाष्य तिरोहिते ब्रह्मणि तदाज्ञया प्रतीच्या ज्ञानदृशा तपोनिधिरपिकल रघुराजचरित करामलकीकृत्य स्वर्गमिव सुरसार्थसुन्दर रामायण विदधे ॥१६॥
मुने इति । मुने । मननशील || करुणा विद्यतेऽस्यास्मिन्वेति करुणावान् | प्राशस्त्ये मतुप् । तस्य । क्रौचवधहेतुक शोक एव । सरसो हृदयाकर्षक सरस्वत्या अय प्रसर उद्गम तस्य शसकम् आवेदकम् । श्लोकत्व पद्यभावम् । आपन्न प्राप्त । तदित्यव्यय पञ्चम्यर्थे । नारदेन निर्दिष्टमाख्यातम् । रामचरित रामायण व्याख्यातचरम् | विधीयता क्रियताम् । निर्मीयतामिति यावत् । विपूर्वको वाब करणार्थे, तत आशिषि कर्मणि लोट । एवम् इत्थमनुष्ठिते । आस्ता भवतात् । चिराय चिरस्य । श्रुतीनाम् अपौरुषेयीणा गिरा वहनेन धारणेन परिश्रान्ता क्लिष्टा । अर्थप्रधानरामचरितवर्णनेन सुधारनपनशिशिरा पीयूषावगाहनशीतला सरस्वती भगवती वाग्देवी । इत्याभाष्य आदिश्य । तिरोहिते अन्तर्हिते । ब्रह्मणि आत्मभुवि । तस्य आज्ञया शासनेन । प्रत्यञ्चतीति