________________
दशकएठवधम् 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जरा ।
सिंहशार्दूलनागाद्या पुसि श्रेष्ठार्थगोचरा ॥' इत्यमर । मुनिषु पु गव ।
'दुःखेष्वनुद्विग्नमना सुखेषु विगतस्पृह ।
वीतरागभयक्रोध स्थितधीमुनिरुच्यते ।।' (२०५६) इति गीता। दीव्यतीति देव । ऋषति आम्नाय पश्यति इति ऋषि । देवश्चासौ ऋषिश्च देवर्षि । तम् । परमेष्ठितनय हिरण्यगर्भागभुवम् । पप्रच्छ । प्रच्छ ज्ञीप्सायाम् । दुह्यादित्वाद् द्विकर्मा । तत्र द्वितीय प्रधान कर्म वक्ष्यमाणम् ॥८॥
साप्रतमस्मिन् लोके को नु श्रीमान् कीर्तेः प्रतापस्य चाश्रयः, सुकृतोज्ज्वलः प्रजावत्सलः, इति पृष्टः स प्रत्युवाच ॥६॥ माप्रतमिति । 'नु स्यात् प्रश्ने विकल्पार्थेऽग्यतीतानुनयार्थयो' इति विश्व ॥६॥
वैवस्वतस्य मनोर्वशे मुक्तामणिः, इक्ष्वाकुकुलकुमलये दिनमणिः, महापुरुषहीरः रघुबीरः, असता विरामः सतामारामः श्रीरामः, इत्यभिधाय देवलोक गते देवर्षों सहर्षी भरद्वाजद्वितीयो महर्षिर्माध्याहिकाय नियमाय जाह्नव्या नातिदूर तमसातीर समाससाद ॥१०॥ वैवस्पतेति । विवस्वत सूर्यस्यापत्य वैवस्वत तस्य मनो ।
'स्वायभुवो मनुरभूत प्रथमस्ततोऽमी, स्वारोचिषोत्तमजतामसरैवताख्या । षष्ठस्तु चाक्षुष इति प्रथित पृथिव्या,
वैवस्वतस्तदनु सप्रति सप्तमोऽयम् ।।' इति । वशोऽन्यवाये वेणौ च । मुक्ता मणिरिव मुक्तामणि । इक्ष्वाकूणा कुलमेव कुवलय कमलविशेष तत्र । दिनमणि प्रद्योतन । महापुरुषेषु होर हीरकरत्नम् । अलकार इति यावत् । रघुषु वीर । विरामोऽवसानम् । आराम आनन्दस्थानम् । भरद्वाजस्तदाख्यो मुनिरुपचारार्थ द्वितीयो यस्य स । मध्याह्न भवो माध्याह्निक स्नानसध्यातर्पणरूपो नियम तदर्थम् । नातिदूरमिति नशब्देन 'सुपसुपा' इति समास । नातिविप्रकृष्टमित्यर्थ । तमसा नदीविशेष । सा च कोसलेषु सरय्वा दक्षिणस्या दिशि क्वचिन्निर्जला क्वचित्सजलेति । 'वितमसा तमसासरयूतटा'