Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 123
________________ तृतीयो गुच्छक ११७ नीरागा इति । वस्तुतो जन्मजन्मान्तरार्जिततपस्तीर्थसग्रहाणामेव पारमाथिक फल तादृक् चित्तवृत्तिसमुदय इति ॥११३॥ त एते नरकानीना सशुष्कन्धनता गताः। यदृष्टा हेलया सन्तः क्लेशसतापतोयदा ॥११४॥ त एत इति । 'हरत्यघ सप्रति हेतुरेष्यत -' इत्यादिमाघोक्तथा व्याख्यातप्रायमेतत् ॥११४॥ सतोष परमो लाभः सत्सङ्गः परमा गति । विचार परम ज्ञान शमो हि परमं सुखम् ॥११॥ सतोष इति । एकैकस्य मोक्षद्वारपालस्य निष्कृष्टार्थदर्शनम् ॥११५।। एकैकोऽपि किलतेषा परेषा प्रसवास्पदम् । तस्मात् ससिद्धये धीमान् यत्नेनैक समाश्रयेत् ॥११६॥ एकैकैति । इदानीमुक्तेषु चतुर्षु एकैकस्यायनुष्ठान परानुष्ठानफलकमिति सक्षेपेण विनेयान् प्रति उपदिशति ॥११६॥ विचारशमसतोषसाधुसङ्गमशालिनि । नरे श्रियो निराजन्ते कल्पवृक्षाश्रये यथा ॥११७॥ ॥ इति चतुर्थो द्वारपालः सत्सङ्गः ॥ विचारेति । एवविशेषणविशिष्टे पु सि कल्पद्रमे श्रिय इव यथाकल्पनमुद्भवन्ति ता सर्वा सपद इति यौगिकार्थेनापि स्फुटम् ॥११७|| ।' इति चतुर्थो द्वारपाल सत्सङ्ग ॥ इदानी वक्ष्यमाणस्यार्थस्य सुखावबोधाय दृष्टान्तमुत्थापयति आर्ष वा पौरुष वापि ज्ञानमज्ञाननाशनम् । सौरमाग्नेयमथवा तेजस्तिमिरभञ्जनम् ॥११॥ आर्ष वेति । ऋषिर्वेदस्तत आगतमार्षम् । 'सबुद्धौ शाकल्यस्येतावनार्षे' (पा० सू० १।१।१६ ) इत्यादौ ऋषिशब्दस्य वेदपरता प्रसिद्धव । तथाचार्ष ज्ञान

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166