Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१३६
दशकण्ठवधम् ताश्चेति । ता प्रजा , अयै तत्मक्ल्पव्यतिरिक्त , कारणान्तरै कारण भेटे । यद् वस्तु, यत यस्मादुपादानाज्जातम । अनुभूयते कनककुण्डलादौ । ततश्च जगतो ब्रह्ममात्रत्वमेव सिद्धम् ॥३४॥
निर्वाणमात्र पुरुष परो बोध स एव हि ।
चित्तमात्र तदेवास्ते नाभ्येति वसुधादिताम् ॥३५॥ निर्वाणमात्रमिति । निर्वान्त्यत्र इति निर्वाणम् , तन्मात्र निर्वृतिमात्रमित्यर्थ । वा गतिगन्धनयो । भावे अविकरणे वा व्युत्पन्न । 'तोऽधिकरणे च' ( पा० सू० ३।४।७६) इति-'नपु सके भावे' (पा० सू० ३।३।११४ ) इति वा क्त । 'निर्वाणोऽवाते' (पा० सू० ८।२।५०) इति निष्ठानत्वम् । निर्वाणमस्त गमने निवृतौ गजमज्जने । सगमेऽप्यपवर्गे च-' इति मेदिनी । यत स चित्तो पाधि । चित्तभ्रान्त्या चित्तमात्रभूतोऽपि परमार्थत स चिदाकाश एवास्त इति न पुन तिकपुरुषादिभावमायातीत्यर्थ ॥३५।।
भगवन् । कि रूप मनो येन नैकरिधा जगन्मञ्जरी सचार्यत इति पृष्टो मुनिकुञ्जर आख्यत--॥३६॥
भगन्निति । कि रूप मन | मनस तात्त्विक स्वरूप कीदृशमिति भाव । जगन्मञ्जरी लोकवल्लरी। सचार्यते प्रसार्यते । समुपसृष्टाञ्चरतेय॑न्तात् कर्मणि लट् । मुनिकुञ्जर मुनिश्रष्ठ ॥३६॥
परमार्थदृशा मनो नाम नास्त्येव किमपि तथापि शास्त्रीय-व्यवहारोपयोगि कल्पित तद्रूपमाह
यदर्थप्रतिभान तन्मन इत्यभिधीयते ।
अन्यन्न किचिदप्येतन्मनो नाम रघूत्तम ! ॥३७॥ यदर्थप्रतिभानमिति । यत् अर्थप्रतिभानम् अर्थाकाराध्यास । तदेव मन इत्यभिलप्यते, नैतदतिरिक्त किमपि मनसो निर्वचन शक्यमुत्प्रेक्षितुमिति भाव ॥३७॥
वस्तुतो मनसो रूपं न मनागपि लभ्यते । नाममात्राहते व्योम्नो यथा शून्यजडाकृतेः ॥३८॥

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166