Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 145
________________ चतुर्थो गुच्छक १३६ यदि स्याजगदादीद ततो मोक्षो न कस्यचित् । बाह्यमाभ्यन्तर वास्ता दृश्य नाशाय केवलम् ॥४३॥ यदि स्यादिति । स्पष्टम् ।।४३॥ तस्मादिमा प्रतिज्ञा त्व शृणु रामातिभीषणाम् । यथायुक्ति यथाशास्त्र सदर्भेऽत्र विजृम्भिताम् ॥४४॥ तस्मादिति । तस्माद्- विवर्तवादस्यैव परिशिष्टत्वात् । प्रतिज्ञाम्- प्रतिज्ञायते इति । प्रति + ज्ञा + 'आतश्चोपसर्गे' इत्यड् , टाप् । ताम् । कर्तव्यतयोपदेशमार्गमित्यर्थ । भीषणाम् दारुणाम् । यथायुक्ति- युक्तिमनतिक्रम्य वर्तत इति । एव यथाशास्त्रमपि । सदर्भ प्रबन्धे । विजृम्भिताम् उल्लासिताम् ।।४४|| ब्रह्मणो रूप निर्दिशति द्वाभ्याम् - अयमाकाशभूतादिरूपोऽहमिति लक्षिते । जगच्छब्दस्य नामार्थो ननु नास्त्येव कश्चन ॥४५॥ यदिद दृश्यते किंचिद् दृश्यजातं पुरोगतम् । परब्रह्मैव तत्सर्वमजरामरमव्ययम् ॥४६॥ अयमिति । यदिदमिति च । निगदव्याख्यातावेतौ ॥४५-४६।। पूर्णे पूर्ण प्रमरति शान्ते शान्त व्यवस्थितम् । व्योमन्येवोदित व्योम ब्रह्मणि ब्रह्म तिष्ठति ॥४७॥ पूर्णे पूर्णमिति । प्रतीचो यद् ब्रह्मक्य तत् पूर्णे पूर्ण प्रसरति । व्योम न्येव घटाधुपाधित्यागाद् व्योम्नेवोदितम् । अतो ब्रह्मण्येव ब्रह्म तिष्ठति- नाणु मात्रमपि तद् विक्रियते । यत्र हि यदध्यास तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि स न सबध्यत इति ॥४७॥ भगवन् ! नन्वेव सन्ध्यातनूजेनापेषि शैलः, शशविषाणेन पलायि दूर, शिलयानति मुहुरिति व्याहरति रघूत्तसे स सूनृतवाग् व्याहृत-॥४॥

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166