Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 140
________________ १३४ दशकण्ठव म् तत्प्रतिपत्तय वेदना अपि, यथा चिदाकाश तथैव तद्भावादवतिष्ठत इत्या शय ||२८|| एहि सौरमस्येव वेदनस्यानवकाशे पुष्पस्येव पृथिव्यादेसकाशस्य वा दूरोदस्ता । तदत्राक्रमण साहस नभसि बीजाकरणकल्पमिति यमेन नियमितो मृत्युर्यथागत गतवान् । एतन्निशम्य पितरेष मम पितामहो नूनमिति रघूद्वहेन निवेदितो ब्रह्मभूराहस्म - भो एष खलु सकल्पाकाशशरीरो ब्रह्मा मन इति ॥ २६ ॥ एवमिति । सौरभस्य सुरभेर्भाव -अण् । सद्गन्वस्य इव । वेदनस्य चित्स्वभावाना वेदनाना अवकाशे असहने, पृथिव्यादे दृश्यप्रपञ्चस्य | दूरो दस्ता - दूरे उदस्ता प्रतिक्षिप्ता । नभसि व्योम्नि, बीजाकरणकल्प बीजोप्तिसदृशगगनकुसुमा तिमित्यर्थ । निशम्य आकर्ण्य । पित गुरो । अनेन वसिष्ठमभिमुखी करोति । एष आकाशजब्राह्मणेति नामान्तरप्रतिपादितो ब्रह्म पितामह पद्मयोनि 'पितृव्यमातुल--' इति साधु । रघूद्वहेन रघुषु उद्वह रक्षादिभारधारक - उद् + वह + अच् । तेन । रामभद्र त्यर्थ । ब्रह्मभू - ब्रह्मणो भवति इति - 'भुव सज्ञा न्तरयो' ( पा० सू० ३।२।१७६ ) इति क्विप् । वसिष्ठ | आहस्म उक्तवान् । 'ब्रुव पञ्चानामादित-' इत्यादिना ब्रूनो लटि आहादेश | सकल्पाकाशशरीरो ब्रह्मा मन इति । सकल्पमात्रमेव मनोरूपम् । न पृथिव्यादिघटितम् । ब्रह्मा प्रजापति ||२६|| 1 1 निराकारोऽपि सकल्प कथ पुरुषाकारतामापन्न इति दर्शयति चिद्वयोम केवलमनन्तमनादिमध्य ब्रह्मेति भाति निजचित्तशात् स्वयंभूः । रानिव पुमानि वस्तुतस्तु वन्ध्यातनूज इन तस्य तनोरभावः ||३०|| ॥ इत्याद्यसर्गकतृ निरूपणम् ॥ चिद्व्योमेति । मनसो ब्रह्माकार कल्पनापरिणामो न वास्तव, किंतु शुद्ध ब्रह्मैव अज्ञानात् तथा विवर्तत इति तात्पर्यम् ॥३०॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166