Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
चतुर्थो गुच्छक
१३३
पुरस्तान्महन्महो देहोऽहमिति चेतति तेनैव कारतालीयवद् भ्रान्तमाकार पश्यति द्रष्टा । स चाय तदानीमम्बरान्तरे निर्मिकल्पचिदाकाशरूपो विज्ञानघन एवातत स्थित ||२६||
भगवन्निति । निर्विकारस्य शूयस्य विकार, अजस्य जन्म, सता पृथिव्यादीनामसत्त्व च यदुच्यते तत्कथ शक्यसभवमिति सदिहानो मृत्युराचष्टे - भगवन्निति । अय ब्राह्मणो अजनीत्यादिना यम प्रतिवक्ति - न वय शून्यत्वाभिप्रायेण परस्य आकाशत्व पृथिव्यादीना चासत्त्वमभिदध्म किंतु कारणात् पृथक् कार्य स्य सन्नैव नाङ्गीक्रियते । एवम् अजस्योत्पत्तिकथनमपि विवर्ताभिप्रायेण न परिगामबुद्धया । ततश्च अय द्विज परमार्थत केवलविज्ञानभामात्रम्, ततश्च स तथैव सदास्थितो न विकृत । महाप्रलय सतिष्ठते - आद्यन्तयो चिन्मात्रपारिशेष्यात् तदेवास्य स्वाभाविक रूपमिति । तद्नु द्रष्टेत्यन्तम् —तदनु सर्गारम्भकाले येन वासनादृष्टसभृतजीवाविद्याहेतुना, पुरस्तात् पुरत, महतो विरारूपस्य चतुर्मुखस्य वा देहोऽहमित्यभिलापयोग्य, मह स्थूल रूप चेतति ईषत्स्फुरति तेनैव विद्याहेतुना, काकतालीयवत्- काकागमनमिव तालपतनमिवकाकतालम्, काकतालमेव काकतालीयम् - काकतालशब्दाद् इवान्तरार्थे सादृश्यान्तरे 'समासाच्च तद्विषयात् ' ( पा० सू० ५|३|१०६ ) इति छप्रत्यय, 'आयनेयीनीयिय - ( पा० सू० ७/१२ ) इति तस्य ईयादेश | अनर्कितोपनतमिति फलि - तार्थं । स्वप्न इव भ्रात मिथ्याभूतम् आकार पश्यति द्रष्टा अस्मदादिजन | आस्थित - विज्ञानघन विशुद्धज्ञानैकरूप, आततो वितत । परहष्ट्यभ्यस्तदेहादिना नास्य निर्विकल्पतादिक्षतिरिति भाव ||२६||
सचाय
नाय काय न कर्माणि न कर्तृत्व न वासना | केवल व्योमरूपम्य भारूपस्येव तेजसः ||२७|
नास्येति । पूर्वं प्रपञ्चितस्य निष्कृष्टार्थ ||२७||
वेदनामात्र शान्तौ तु नेदृशोऽप्येष दृश्यते । । तस्माद् यथा चिदाकाशस्तथा तत्प्रतिपत्तयः ||२८||
वेदनेति । वेदना, बहमु खचित्प्रवृत्ति, तन्मात्रस्य शान्तौ । ईदृशोऽपि, प्रातिभासिकरूपोऽपीति । तस्माद् अधिष्ठानतत्त्वस्य परिचयेन विषयबाधात्,

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166