Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 137
________________ चतुर्थो गुच्छक १३१ न च पाषाणेति । पाषाणताप्रख्या अश्मशकलकल्पा , अनात्मभूता इत्यर्थ । रूढिं प्रसिद्धिम् । अजम्-न जायते इत्यज । ड । तम् । अव्ययम्-न व्येति यत् तत् । 'एरच ' इत्यच् । अग्रपद मोक्षरूपम् । न भवन्ति न जायन्ते ॥२२॥ तस्माद् यदीद सद् दृश्य तन्न शाम्येत् कदाचन । शाम्येत् तपोजपध्यानैरिति मन्दविचारणा ॥२३॥ तस्मादिति । तदित्य सतो दृश्यस्योपशम सर्वथा असभवी । शाम्येत्प्रशम यायात् । शमु उपशमे । सभावनाया लिड् । मन्दविचारणा-मन्दाना मन्दा वा विचारणेति चेत्युभयथा योज्यम् । स्वात्मज्ञानलाभे नियतिशक्तिसमुत्थ जपध्यानयज्ञादिक नोगयतया क्रमत इत्याशय । भगवद्गीतास्वपि-'नाह वेदैर्न तपसा न दानेन न चेज्यया ।।' (११-५३ ) इति ।।२३।। प्रलीनारोहसंतान यथा पद्माक्षकोटरे । जागर्ति पमिनीबीज तथा द्रष्टरि दृश्यधी ॥२४॥ ॥ इति बन्धहेतुदर्शनम् ॥ प्रलीनेति । प्रलीन सूक्ष्मतयान्तगूढ , आरोहस्य सतान प्रसवो यस्मिन्तत् । पद्मिनीबीजम्-पद्मिनी कमलिनी तस्या बीजम् उपादानभूतम् । जागर्तिआस्ते । द्रष्टरि प्रमातरि, दृश्यधी- दृश्यसहिता धी बुद्धि-मध्यमपदलोपी समास ॥२४॥ ॥ इति बन्धहेतुदर्शनम् ।। कामकर्मवासनासभृतया अविद्यया उपहित आत्मैव जगद्वीज मृत्युबीज च, विद्यया तद्वीजनिष्ठाया शक्तर्दाहे न मृत्युवशो भवतीति प्रागुक्त -तत्र जगत सर्गे प्राथम्यमुपगतस्य आकाशतत्त्वस्य शोधनमुखेन वक्ष्यमाणार्थे आख्यायिकामुपन्य स्यति भो ! एवं किलारव्यायते-आस्त आकाशजो नाम विप्र । यस्यचिरजीविता विलोकयन्मृत्युमर्मीमासामास- मया खलु क्रमेण कृत्स्नानि

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166