________________
चतुर्थो गुच्छक
१३१
न च पाषाणेति । पाषाणताप्रख्या अश्मशकलकल्पा , अनात्मभूता इत्यर्थ । रूढिं प्रसिद्धिम् । अजम्-न जायते इत्यज । ड । तम् । अव्ययम्-न व्येति यत् तत् । 'एरच ' इत्यच् । अग्रपद मोक्षरूपम् । न भवन्ति न जायन्ते ॥२२॥
तस्माद् यदीद सद् दृश्य तन्न शाम्येत् कदाचन ।
शाम्येत् तपोजपध्यानैरिति मन्दविचारणा ॥२३॥ तस्मादिति । तदित्य सतो दृश्यस्योपशम सर्वथा असभवी । शाम्येत्प्रशम यायात् । शमु उपशमे । सभावनाया लिड् । मन्दविचारणा-मन्दाना मन्दा वा विचारणेति चेत्युभयथा योज्यम् । स्वात्मज्ञानलाभे नियतिशक्तिसमुत्थ जपध्यानयज्ञादिक नोगयतया क्रमत इत्याशय । भगवद्गीतास्वपि-'नाह वेदैर्न तपसा न दानेन न चेज्यया ।।' (११-५३ ) इति ।।२३।।
प्रलीनारोहसंतान यथा पद्माक्षकोटरे । जागर्ति पमिनीबीज तथा द्रष्टरि दृश्यधी ॥२४॥
॥ इति बन्धहेतुदर्शनम् ॥ प्रलीनेति । प्रलीन सूक्ष्मतयान्तगूढ , आरोहस्य सतान प्रसवो यस्मिन्तत् । पद्मिनीबीजम्-पद्मिनी कमलिनी तस्या बीजम् उपादानभूतम् । जागर्तिआस्ते । द्रष्टरि प्रमातरि, दृश्यधी- दृश्यसहिता धी बुद्धि-मध्यमपदलोपी समास ॥२४॥
॥ इति बन्धहेतुदर्शनम् ।। कामकर्मवासनासभृतया अविद्यया उपहित आत्मैव जगद्वीज मृत्युबीज च, विद्यया तद्वीजनिष्ठाया शक्तर्दाहे न मृत्युवशो भवतीति प्रागुक्त -तत्र जगत सर्गे प्राथम्यमुपगतस्य आकाशतत्त्वस्य शोधनमुखेन वक्ष्यमाणार्थे आख्यायिकामुपन्य स्यति
भो ! एवं किलारव्यायते-आस्त आकाशजो नाम विप्र । यस्यचिरजीविता विलोकयन्मृत्युमर्मीमासामास- मया खलु क्रमेण कृत्स्नानि