________________
१३०
दशकएठवधम्
जगत्प्रतीति । श्रादर्श इव यथा मुकुरतले सर्व साक्षात् क्रियते, एव चित्यपि परमाणूदरेऽग्यात्मनि ब्रह्माण्डा त समावेश सभवत्येव । न तत्र प्रदेशकृत प्राचुर्य सकोचो वा अनुरुध्यत इति ।।१८।।
इद प्रमार्जित दृश्य मयात्राहमवस्थितः ।
एतदेवाक्षय बीज समाधौ समृतिस्मृतेः ॥१६॥ इदमिति । प्रमार्जित ज्ञाननिरपेक्षेण सविकल्पकेन समाविना दूरोत्सारितम् । समाधौ-समाधिश्च तदेवार्थमात्रनिर्भास स्वरूपशून्यमिव समाधि' ( यो० द० ३।३) इत्येवरूप , तस्मिन् । समाधिस्थश्चेत् समृति स्मरति, तदा समाधेरेव भङ्ग । अस्मृता सा नैव माष्टुं शक्यते । एतदेव चास्य दृश्यस्य अक्षय बीजम्-यन्मूलको दीर्घदीर्घतर ससरणव्यापार ॥१६॥
सति दृश्ये कुतो राम ! निर्विकल्पममाधिता।
समाधौ चेतनत्व च तुर्यत्व चोपपद्यते ॥२०॥ सति दृश्यते । दृश्यसत्ताया निर्विकल्पक समाधिरेव न घटते, कुतस्तेन मार्जनम् । सत्यपि वा तस्मिन् चित्तसत्त्वे चेतनत्व, तस्याप्युपरामे तुरीयावस्था चेति न समाविरत्र प्रभवतीति व्यक्तम् ॥२०॥
सुषुप्तान्त इवैतस्मिन् व्युत्थाने दु.खदर्शनात् ।
भूयोऽनर्थपरिक्लिष्टे क्षणसाम्ये हि कि सुखम् ॥२१॥ सुषुप्तान्तेति । व्युत्थान विरुद्धमुत्थानम् । 'प्रादयो गता' ( वा० २।२।१८) इति समास । 'ते समाधावुपसर्गा व्युत्थाने सिद्धय (यो० द० ३।३६ ) एतदभिप्रेत्योक्तम्
"द्रव्यमन्नक्रियाकालशक्तय साधुसिद्धिदा । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ सर्वेच्छालाभसशान्तावात्मलाभोदयो हि य । स कथ सिद्धिवाञ्छाया मग्नचित्तेन लभ्यते ॥' इति ॥२शा न च पाषाणताप्रख्या रूढि प्राप्ता समाधय । भनन्त्यग्रपद शान्त चिद्रूपमजमव्ययम् ॥२२॥