________________
१२६
चतुर्थो गुच्छक द्रष्टुदृश्यस्य सत्त व बन्ध इत्यभिलप्यते । द्रष्टा दृश्यवलाद् बद्धो दृश्याभावे तु मुच्यते ॥१३॥ जगत्वमहमित्यादिमिथ्यात्मा दृश्यमुच्यते ।
यावदेतत्सभवति तावन्मोक्षदशा क्व च ॥१४॥ द्रष्टुरिति । जगत्त्वमहमिति च । स्पष्टार्थो ।।१३-१४॥
नेद नेदमितिव्यर्थप्रलापै नोपशाम्यति । सकल्पजनकै श्यव्याधिः प्रत्युत दीप्यते ॥१५॥ जगद्दश्य तु यद्यस्ति न शाम्यत्येव कस्यचित् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥१६॥ नेदमिति । जगदृश्यमिति च । दृश्यसद्भावे, नेद नेदमित्युपेक्षया कथचिदेकस्य निराकरणेऽपि पर प्रसज्जते, ततोपीतर इत्येव दृश्यपरपराया यथो त्तर प्ररोह , तस्मान्न केवलया वाचा बाध यावद् विचार सहकारेणैवेति । दृश्यव्याधि -दृश्यमेव व्याधि , दृश्य वा व्याधिरिवेति । पूर्वत्र मयूरव्यसकादित्वात्स मास परत्र च उपमितसमास । व्याधिरिव दृश्योच्छेदो न सुकर इति भाव । दीप्यते दीपदीप्तौ-भावे लट् ॥१५-१६॥ मोक्षे प्रतिबन्धकान् हेतूनाह
अचेत्यचित्स्वरूपात्मा द्रष्टा यत्रैव तिष्ठति ।
तत्रैवैतस्य दृश्यश्री समुदत्यप्यरणदरे ॥१७॥ अचेत्येति । अचेत्य बोद्धुमशक्य चित्स्वरूप आत्मा यस्य, एतादृश । अज्ञातात्मेति यावत् । यत्रैव दृश्यसमावेशायोग्ये परमाणूदरादावरि तिष्ठति स्थिति लभते । तत्रैव एतस्य आत्मन दृश्यश्री दृश्यबीज समुदेति प्रादुर्भवति । अणूदरे-अणु पूर्णाहभावशून्य सकुचितमन्यो जीव , तस्य उदरे उदरकोटरेइति । यत्र कापि एवभूतप्रदेशे तिष्ठन्नेतेनावश्य परिभूयते ॥१७॥
जगत्प्रतिफलत्येवमादर्श इव चित्यपि । जन्ममृत्युरुजाकीर्णा ततो दु खपर परा ॥१८॥