________________
१२८
दशकण्ठवधम्
तत इति । क्रियाशक्तिप्रधान प्राणधारणमेव जीवशब्दार्थ । तत् कलनेन आकुलता चञ्चलताम् । भूतात्मा भौतिकलिङ्गात्मा । मननात् सकल्पविकल्परूपात् । मन्थरीभवन् जाड्यं न मन्दीभवन् । मनो भवति परमात्मभाव विस्मृत्य मन सपद्यते । मनो धर्मानपि सकल्पादीन आत्मन एव मन्यत इति भाव ॥८॥
तत् स्वयम् स्पैरमेनाशु सकल्पयति नित्यश ।
तेनेस्थमिन्द्रजालाभ जगदेतद् निवर्तते ॥६॥ तदिति । तदेव समष्टिमनोभावमापन्न हिरण्यगर्भाख्य ब्रह्म, स्वयम् अन्येन अबोधितमपि पूर्ववासनानुरोधाद् विराड्भाव, भुवनादिभाव तत्र च चतुर्विवभूतग्रामभावमिति नित्य स्वैरमेव सकल्पयतीति स्पष्टार्थ । तेन सत्यसकल्पेन इन्द्रजालाभम् इन्द्रजालोपमम् । विवर्तते अतत्त्वत अन्यथा प्रथते ।।६।।
यथाहि हेम्नः कटक न पृथग्भावमश्चति ।
कटकान्न च हेमापि ब्रह्मणीद तथा जगत् ॥१०॥ यथाहीति । हेमकटकरूपात् कांचनात् कटकशब्दार्थो यथा न पृथग्भाव भजते तथा ब्रह्मणि प्रतिभात जगदपीद न पृथग्भावमञ्चति । तदेवम् अध्यारोपशतैरपि नाधिष्ठानस्य पारमार्थिकी स्थिति ज्यता इति वस्तुपरमार्थ ॥१०॥
पर जगति न ब्रह्म हेम्नीव क्टकात्मता ।
सैकतोस्त्रेण वारीच मनसतज्जगद्धमः ॥११॥ पर जगतीति । सैकतोस्रण मरुमरीचिकया। सैकत सिकतामयम्किरणोस्रमयूखाशु -इत्यमर ॥११॥
अविद्या ससृतिवन्धो माया मोहो महत्तम ।
इत्यज्ञानस्य पर्यायाः कथिता मर्मवेदिभिः ॥१२॥ अपियति । विद्यापोद्यत्वादविद्या । ऊर्ध्वाधस्तिर्वक्ससरणाद्धेतो ससति । स्वातन्त्र्यविघटकत्वाद् बध । मिथ्यात्वान् माया, विश्वमोहकतया वा । मीयते परिच्छिद्यते प्रमातृप्रमेयप्रपञ्चो ययेति वा । भ्रमहेतुत्वान्मोह । दुस्तरत्वान्महत् । स्वरूपावरकत्वात् तम इति ।।१२।।
बन्धमोक्षयो स्वरूपमाह द्वाभ्याम्