________________
चतुर्थो गुच्छक
१२७ ततः स्तिमितगम्भीर न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्त सत् किचिदवशिष्यते ॥५॥ तत इति । स्तिमितम् अमूर्तत्वान्निष्क्रियम् । गम्भीर परिच्छेदानहम् । न तेज , नीलपीतादिरूपविरहात् । न तम , प्रकाशैकधर्मत्वात् । अनाख्यम् , निर्वर्मकतया इदमित्थमिति निर्देष्टुमशक्यम् । अनभिव्यक्तम्-स्वानुभवैकगम्यतया बाह्यप्रमाणानामगोचरम् ।।शा
ऋतमात्मा पर ब्रह्म सत्यमित्यादिनामभिः ।
शब्द्यते व्यवहारार्थं तत् सदेव महेश्वरः ॥६॥ ऋतमात्मेति । आत्मनो निर्वचन तु
'यच्चाग्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सततो भावस्तस्मादात्मेति शब्द्यते ।।' इति व्यासानुशिष्टमिह द्रष्टव्यम् । ब्रह्म, वृहत्त्वाद् बृहकत्वाद् वा । व्यवहारश्च उपदेश्योपदेशरूप , तदर्थम् । नहि सज्ञाकरणमन्तरा व्यवहार कश्चन घटते । लोकेऽपि देवदत्तादिपव्यपदेश्या हि व्यवहारभाजो भवन्तीति ।।
स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।
जीवतामुपयातीव वीचितामिव वारिधिः ॥७॥ स तथेति । तथाभूत चित्स्वभावतया स्थितोऽपि मुग्ध सन् अन्य , आका शादिक्रमोद्भूतलिङ्गसमष्ट्यात्मा जड , स इव उल्लसन् , तदनुप्रवेशात् तदभिमानेन प्राणवारणाद्यपाधिना देहत्वमनुप्रविष्ट जीवताम् उपयाति इव, जीवव्यवहार प्रतिपद्यत इव । वस्तुतस्तु इद विभ्रमविजृम्भितमेवेति इवोपादानात सूचितम् । दर्शनान्तरेऽपि
'देहप्राणविमर्शनधीज्ञाननभ प्रपञ्चयोगेन ।
आत्मान वेष्टयते चित्र जालेन जालकार इव ।।' (परमार्थसार ३२) इति ॥७॥
ततः स जीवशब्दार्थकलनाकुलता वहन् । मनो भवति भूतात्मा मननान्मन्थरीभवन् ॥८॥