________________
१०६
दशकण्ठरवम् 'न निरोधो न चोत्पत्तिर्न बद्धो न च सापक ।
न मुमुक्षुर्न वै मुक्तिरित्येषा परमार्थता ।' इति । दृश्य जगदाद्यात्मना भासमानो वेद्यवर्ग । स्मरन्ति च शास्त्रकृत -
'यदिद दृश्यते किंचिद् दर्शनात् तन्न भिद्यते ।
दर्शन द्रष्टुतो नान्यद् द्रष्टैव हि ततो जगत् ।।' इति । अय दृश्यपदार्थ -"द्रष्टदृश्ययो सयोगो हेयहेतु ,' 'प्रकाशक्रिया स्थितिशील भूतेन्द्रियात्मक भोगापवर्गार्थं दृश्यम्', द्रष्टा दृशिमात्र शुद्धोऽपि प्रत्ययानुपश्य ,” (यो० द० २ पा० १७-१८, २० ) इत्यादिसूत्रैर्योगदर्शने प्रपञ्चित ॥२॥ ___ य एवोत्पद्यत इति । ससृतौ ससरणदशायाम् । ससरण च-जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, नश्यतीति षड्भावविकारनेमियुक्तम् । प्रागभ्यात्मा प्रत्यक्चेतन । शाश्वत शश्वद्भव , अण् ॥३॥
यदेतद् दृश्यते सर्व जगत् स्थावरजङ्गमम् ।
तत् सुषुप्ताविन स्वप्नः कल्पान्ते प्रविनश्यति ॥४॥ यदेतदिति । स्थावर जगमादितरद् । कल्पान्ते कल्पप्रलये । सुषुप्तौ, जीवस्य ज्ञानशून्यावस्थायाम् । उपनिषत्स्विय सुषुप्तिरेव विवृता'यत्र सुप्तो न कचन कामं कामयते, न कचन स्वप्न पश्यति ।'
(वृ०उ० ४।३।१६) 'यत्रैतत्पुरुष सुप्त स्वप्न (स्वप्नसृष्टफल) न कचन पश्यति ।'
(कौषी० उ० ३३) 'तद् यत्रतत्सुप्त समस्त सप्रसन्न स्वान न विजानाति ।'
(छा० उ० ८।६३) अन्यत्रापि
"अर्योऽर्थग्रह पुसा तञ्जाग्रदिति कथ्यते । यत्त विनार्थस्मरण मनसा स्वप्नसज्ञितम् ॥ यत्रार्थस्मरणे न स्तस्तत् सौषुप्तमिति स्मृतम् ।
शुद्धबोधैकरूपो योऽवस्थात सैव तुर्यता ।।" इति ॥४॥