________________
अथ चतुर्थो गुच्छकः।
अथ सृष्टिप्रकारनिरूपणपुरस्सर 'एकमेवाद्वितीय ब्रह्म' इत्यागमानुभवयुक्तियुक्त ब्रह्माद्वैत प्रतिपादयितु प्रकरणमवतारयति
वाग्भाभिन्न माविद् ब्रह्म भाति स्वप्न इवात्मनि ।
यदिद तत् स्वशब्दोत्थै यो यद् वेद स वेद तत् ॥१॥ वाग्भाभिरिति । वाचा 'तत्त्वमसि, ब्रह्माहमस्मि' इत्याधु पनिषत्सारभूताना द्वादशमहावाक्याना, भाभि स्वरूपप्रकाशै । आत्मनि प्रत्यगात्मनि । स्वग्न इव भाति आविर्भूत चकास्ति । स्वशब्दोत्थै , स्वशब्दोत्थाश्च ब्रह्मण स्वरूपप्रतिपत्तये क्रियमाणा श्रवण मनन निदिध्यासनादिरूपा उपाया , तै । यद् वेत्ति, यादृश ब्रह्म तत्त्वत साक्षात्करोति । तद् वेद, तादृशमेव पूर्वानुभूत सर्वस्मिन्नपि काले हृदयात स्फुरति । इदमत्र तात्पर्यम्___ ब्रह्मातिरिक्त न किमपि वस्तु इह परमार्थसद् भवितुमर्हति । 'आत्मैवेद सर्वमित्यादि श्रुतिशासनाद् अनुभवसवादाच । यच्चेदमनन्तप्रकारायमाणै वैचित्र्यप्रपञ्च रुल्लसितम् असदपि सदिव प्रतीयमान जगत् , तत्सर्व स्वान इव आत्मन्यध्यस्त केवल कल्पनामात्रसारम् । इत्येवरूपेण सकृदपि सजाते दृढप्रत्यये न कदाचिदपि मुमुक्षोरात्मस्वरूपबोवहानिप्रसङ्ग , न वा ज्ञातपरमार्थस्य तस्य मुक्तिसमयावधि स्वस्वरूपात्प्रच्याव , ब्रह्मविषयक सदेहप्ररोहो वा कथचिदपि सभवति । 'सद्विभातोऽयमात्मे' त्यादिश्रुतीनामप्यत्रार्थ एतदेव रहस्यम् ॥१॥ द्वाभ्या बन्धस्वरूप निर्दिशति
बन्धोऽय दृश्यसद्भावाद् दृश्याभावे न बन्धता । दृश्य त्वसभवद् राम ! यथेद तच्छृणु क्रमात् ॥२॥ य एवोत्पद्यते कश्चित् स एप परिवर्तते ।
उत्पत्तिः समृतावेति प्रागभ्यात्मा तु शाश्वतः ॥३॥ बन्धोऽयमिति । बन्ध स्वस्वरूपानवमर्श , मायाव्यामोहितत्वमिति वा । तथाच साख्या -प्रकारान्तरासभवादविवेक एव बन्ध' (सा० सू०६।१६)। परमार्थतो नात्मनि दृश्योत्पत्ते पूर्व परतो वा विकृते कुतश्चन सभव । तथा च श्रुति -