Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 136
________________ १३० दशकएठवधम् जगत्प्रतीति । श्रादर्श इव यथा मुकुरतले सर्व साक्षात् क्रियते, एव चित्यपि परमाणूदरेऽग्यात्मनि ब्रह्माण्डा त समावेश सभवत्येव । न तत्र प्रदेशकृत प्राचुर्य सकोचो वा अनुरुध्यत इति ।।१८।। इद प्रमार्जित दृश्य मयात्राहमवस्थितः । एतदेवाक्षय बीज समाधौ समृतिस्मृतेः ॥१६॥ इदमिति । प्रमार्जित ज्ञाननिरपेक्षेण सविकल्पकेन समाविना दूरोत्सारितम् । समाधौ-समाधिश्च तदेवार्थमात्रनिर्भास स्वरूपशून्यमिव समाधि' ( यो० द० ३।३) इत्येवरूप , तस्मिन् । समाधिस्थश्चेत् समृति स्मरति, तदा समाधेरेव भङ्ग । अस्मृता सा नैव माष्टुं शक्यते । एतदेव चास्य दृश्यस्य अक्षय बीजम्-यन्मूलको दीर्घदीर्घतर ससरणव्यापार ॥१६॥ सति दृश्ये कुतो राम ! निर्विकल्पममाधिता। समाधौ चेतनत्व च तुर्यत्व चोपपद्यते ॥२०॥ सति दृश्यते । दृश्यसत्ताया निर्विकल्पक समाधिरेव न घटते, कुतस्तेन मार्जनम् । सत्यपि वा तस्मिन् चित्तसत्त्वे चेतनत्व, तस्याप्युपरामे तुरीयावस्था चेति न समाविरत्र प्रभवतीति व्यक्तम् ॥२०॥ सुषुप्तान्त इवैतस्मिन् व्युत्थाने दु.खदर्शनात् । भूयोऽनर्थपरिक्लिष्टे क्षणसाम्ये हि कि सुखम् ॥२१॥ सुषुप्तान्तेति । व्युत्थान विरुद्धमुत्थानम् । 'प्रादयो गता' ( वा० २।२।१८) इति समास । 'ते समाधावुपसर्गा व्युत्थाने सिद्धय (यो० द० ३।३६ ) एतदभिप्रेत्योक्तम् "द्रव्यमन्नक्रियाकालशक्तय साधुसिद्धिदा । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ सर्वेच्छालाभसशान्तावात्मलाभोदयो हि य । स कथ सिद्धिवाञ्छाया मग्नचित्तेन लभ्यते ॥' इति ॥२शा न च पाषाणताप्रख्या रूढि प्राप्ता समाधय । भनन्त्यग्रपद शान्त चिद्रूपमजमव्ययम् ॥२२॥

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166