Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 141
________________ १३५ चतुर्थो गुच्छक ब्रह्मणो मनोरूपत्याभ्युपगमे, मनसश्च वासनाजालरूपत्वात् प्राक्तन वासनाजाल न किंचिदस्य वर्तत-इति कथन न बुद्धिपथमारोहतीति मन्यमानो राघव प्रश्न प्रस्तौति भगरन् । यदि पृथिव्यादिवजित मनो ब्रह्मति गीयते तीतरस्ये ब्रह्मण शरीरे प्राक्तनी स्मृतिः कि न कारणमिति राघवेण पृष्टो वसिष्ठ आख्यत -यस्य फिल पूर्वकर्मानुबन्धी देहस्तस्यैव ससृतिसद्भा वात् स्मृतिः कारणम् । ब्रह्मणो हि पूर्वकर्माभावे प्राक्तनस्मृतेः क इव सक्रमः । कारणात्मन इतरस्येव नापि ब्रह्मण आतिवाहिक प्राविभौतिक इति देहद्वितय केवलमातिपाहिक एव ॥३१॥ भगवनिति । इतरस्येव अस्मदादिवत् पश्वादिवच्च । प्राक्तनी स्मृति - पूर्वशरीरत्यागसमयोद्भूता स्मृति । ' य य वापि स्मरन् भावमिति गीतोक्रस्म दादिरिव ब्रह्मण शरीरे कुतो न प्राक्तनी स्मृति । सत्या च तस्या तदुद्भवावारस स्कारदेहादिकेनापि प्राक्तनेन नून भाव्यमिति । सक्रम सक्रमणम् । प्रवेश इति यावत् । आतिवाहिक - अतिवहनम् अर्चि । धूमादिमार्गेण लोकान्तरप्रापणम् । तत्र साधुरिति ठक् । अस्मदादेलिङ्गदेह इव सूक्ष्म इति यावत् । अविक तु 'आतिवाहिकास्तल्लिङ्गात्' (ब्रह्मसू० ४।३।४) इति सूत्रस्थ शारीरकभाष्यादनगन्तव्यम् । आधिभौतिक , भूतानि व्याघ्रसादीन्यधिकृत्य जात । अधि + भूत + ठन् । उभयपदवृद्धि । स्थूलभूतज । शेष सुगमम् । सर्वासा भूतवृत्तीनामेकोऽजः कारण परम् । न चास्य कारण कोऽपि तेनासावेकदेहवान् ॥३२॥ चित्तमात्रशरीरोऽय न भूम्यादिक्रमोत्थित । प्रजापतियोमरूपः प्रजाः प्रतनुतेतराम् ॥३३॥ सर्गासामिति । चित्तमात्रेति च । पूर्वोक्तस्य फलितार्थभूतत्वात् स्प ष्टार्थों ॥३२-३३॥ ताश्च चिद्व्योमरूपिण्यो विनान्यः कारणान्तरैः । यद् यतस्तत् तदेवेति सर्वैरेवानुभूयते ॥३४॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166