Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 127
________________ तृतीयो गुच्छक १२१ दृष्टान्तेति । अशमात्रेण उपादेयलेशमात्रेण । उपादेयतया ग्राह्यतया । महावाक्यानि 'तत्त्वमसि' इत्यादीनि ।' न कुतार्किकतामेत्य नाशनीया प्रबुद्धता । अनुभूत्यपलापान्तरपवित्रौर्विकल्पिते ॥१३॥ ॥ इति दृष्टान्तनिरूपणम् ॥ न कुतार्किकेति । नैषा तर्केण मतिरपनेया ( कठो० उप० ३।६) इत्याद्युपनिषद्वाक्यै कुतर्केष्वनास्थाप्रतिपादनात् यथारुचि नियमासभवाच्चेति तात्पयम् । ॥ इति दृष्टान्तनिरूपणम् ।। विशिष्टाशसधर्मत्वमुपमानेषु गृह्यते । को भेदः सर्वसादृश्ये तूपमानोपमेययोः ॥१३६॥ विशिष्टाशेति । विशिष्टो विशेषेण प्रतिपादयितु विवक्षितो योश तेनैव सधर्मत्व सर्वत्रोपमानेषु गृह्यते । अन्यथा-'गौरिव गवय ' इत्यादौ जात्यादिनापि सादृश्यविवक्षाया भेदाभावादुपमानमात्रोच्छेद स्यादित्यर्थ ।।१३६॥ दृष्टान्तबुद्धावेकात्मज्ञान-शास्त्रार्थवेदनात् । महानाक्यार्थससिद्धा शान्तिर्निर्माणमुच्यते ॥१३७॥ दृष्टान्तेति । तत्त्वपदार्थशोधनोपयोगि तत्तदृष्टान्तबुद्धौ सत्याम् एकमद्वितीय यज्ज्ञानस्वरूपमात्मतत्त्व तदेव शास्त्रार्थ तस्य वेदनाद् अववोधात् ॥१३७।। शान्ति श्रेयः पर विद्धि तत्प्राप्तौ यत्नवान् भव । भोक्तव्यमशन प्राप्त कि तत्सिद्धौ विकल्पनैः ॥१३८॥ शान्तिमिति । विकल्पनै विकल्पावतरणै ॥१३॥ तावद् विचारयेद् यावत् तुर्य विश्रान्तिमाप्नुयात् । प्राप्तविश्रान्तिसपत्त, निर्मन्दर इवाम्बुधिः ॥१३६।। तावदिति । एतावत्येव विचारस्येयत्तेति ॥१३॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166