Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
तृतीयो गुच्छक
११६ यैरिति । सत् परमार्थसत्यम् । अकारण नित्यम् । अप्रयोजकैरेव मृत्सुवर्णाधु पादानैदृष्टान्तै सद् ब्रह्म कारण बोध्यते । तथाच जन्यत्यादयो दृष्टान्तधर्मा दार्टान्तिके ह्यु पेक्ष्या ॥१२॥
उपमानोपमेयाना कार्यकारणसगतिः ।
वर्जयित्या परब्रह्म सर्वेषामेर वर्तते ॥१२५॥ उपमानेति । यथा विचारादिभिर्बिम्बग्राहक ज्ञानमुत्पद्यते इत्युच्यते तथा ज्ञानाद् बिम्बमुत्पद्यते इति न वक्तव्यम्-ब्रह्मण उत्पत्तेवक्त मशक्यत्वात् ॥१२४॥
ब्रह्मोपदेशे दृष्टान्तो यस्तवेह निरूप्यते ।
एकदेशमधर्मत्वं तत्रान्तः परिगृह्यते ॥१२॥ ब्रह्मोपदेशेति । एतदुक्त भवति–जगद्विवर्त ब्रह्माधिष्टानबोधने भुजङ्ग विवाधिष्ठानबोधकरज्जुदृष्टान्तस्याविष्ठानविवर्ताशमात्रेण दृष्टान्तत्व न तु दार्टान्तिकनित्यत्वसुखित्वादिसर्वाशेन ।।१२।।
यो यो नामात्र दृष्टान्तो ब्रह्मतत्वावबोधने । दीयते स स बोद्धव्यः स्वप्नभूतो जगद्गतः ॥१२६।। यो य इति । स्वप्नजात इव मिथ्याभूतो जगदन्तर्गत एव न वास्तव
॥१२६॥
एव सति निराकारे ब्रह्मण्याकारणान् कथम् । दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥१२७।। एव सतीति । एव दार्टान्तिके दृष्टान्तधर्माभावे सति विकल्पोक्तीनामनवकाश ॥१२७॥
अन्यासिद्धविरुद्धादिदृशां दृष्टान्तदूषणैः । स्वप्नोपमत्वाज्जगतो न किचिदपि हीयते ॥१२८॥
अन्यासिद्धति । अन्येषाम् असिद्धविरुद्धादिदोषदृशा तार्किकाणा दृष्टान्तप्रदूषणैर्दूष्यस्य हेत्वादेर्जगत स्वप्नोपमत्वाद् वस्तुनि न किचिद् दूषण समुदेतीत्यर्थ ॥१२॥

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166