________________
तृतीयो गुच्छक
१२१ दृष्टान्तेति । अशमात्रेण उपादेयलेशमात्रेण । उपादेयतया ग्राह्यतया । महावाक्यानि 'तत्त्वमसि' इत्यादीनि ।'
न कुतार्किकतामेत्य नाशनीया प्रबुद्धता । अनुभूत्यपलापान्तरपवित्रौर्विकल्पिते ॥१३॥
॥ इति दृष्टान्तनिरूपणम् ॥ न कुतार्किकेति । नैषा तर्केण मतिरपनेया ( कठो० उप० ३।६) इत्याद्युपनिषद्वाक्यै कुतर्केष्वनास्थाप्रतिपादनात् यथारुचि नियमासभवाच्चेति तात्पयम् ।
॥ इति दृष्टान्तनिरूपणम् ।। विशिष्टाशसधर्मत्वमुपमानेषु गृह्यते ।
को भेदः सर्वसादृश्ये तूपमानोपमेययोः ॥१३६॥ विशिष्टाशेति । विशिष्टो विशेषेण प्रतिपादयितु विवक्षितो योश तेनैव सधर्मत्व सर्वत्रोपमानेषु गृह्यते । अन्यथा-'गौरिव गवय ' इत्यादौ जात्यादिनापि सादृश्यविवक्षाया भेदाभावादुपमानमात्रोच्छेद स्यादित्यर्थ ।।१३६॥
दृष्टान्तबुद्धावेकात्मज्ञान-शास्त्रार्थवेदनात् ।
महानाक्यार्थससिद्धा शान्तिर्निर्माणमुच्यते ॥१३७॥ दृष्टान्तेति । तत्त्वपदार्थशोधनोपयोगि तत्तदृष्टान्तबुद्धौ सत्याम् एकमद्वितीय यज्ज्ञानस्वरूपमात्मतत्त्व तदेव शास्त्रार्थ तस्य वेदनाद् अववोधात् ॥१३७।।
शान्ति श्रेयः पर विद्धि तत्प्राप्तौ यत्नवान् भव ।
भोक्तव्यमशन प्राप्त कि तत्सिद्धौ विकल्पनैः ॥१३८॥ शान्तिमिति । विकल्पनै विकल्पावतरणै ॥१३॥ तावद् विचारयेद् यावत् तुर्य विश्रान्तिमाप्नुयात् । प्राप्तविश्रान्तिसपत्त, निर्मन्दर इवाम्बुधिः ॥१३६।। तावदिति । एतावत्येव विचारस्येयत्तेति ॥१३॥