________________
१२२
दशकण्ठवधम
एकाशेनोपमानानामुपमेय सधर्मता ।
बोद्धव्यं बोध्यबोधाय न भाव्य बोधचश्च ना ॥ १४० ॥
एकाशेनेति । बोधचञ्चुना लोकेषु श्रात्मख्यात्यै ज्ञानध्वजिना न भवित व्यमित्यर्थ ॥१४९||
अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथाभिधम् ।
प्रत्यक्षमिति सज्ञेह कृता जीवः स एव नः ॥ १४१ ॥
1
अनुभूतेरिति । प्रकाशात्मना भवनम् अनुभूति । वेद्यस्य प्रकाशन वेद नम् । अनुभव वैद्य-वेत्तृलक्षणस्य त्रितयस्य व्याप्ति प्रतिपत्ति । शेष स्पष्टम् ॥१४१ | स एव सवित् स पुमानर्हताप्रत्ययात्मकः । सोदेति सन्यासा पदार्थ इति स्मृता ॥ १४२ ॥
स एवेति । साक्षी वृत्त्युपाधौ सवित् । अहताप्रत्ययात्मा पुमान् प्रमाता स एव या विषयाकारवृत्त्या बाह्यावरणभङ्गे आविर्भवति सा पदार्थो विषय इति ||१४||
एव व्यष्टौ उपपाद्य समष्टौ हिरण्यगर्भेऽपि दर्शयति
स सकल्पविकल्पायैः कृतभूरिक्रमभ्रमैः ।
जगत्या स्फुरत्यम्बु तरङ्गादितया यथा ॥ १४३ ॥
स सकल्पेति । तरङ्गादितया अम्बुवत् स एव पदार्थ जगत्तया स्फुरती तात्पर्यम् ॥१४३॥
प्रागकारणमेवाशु सर्गादौ सर्गलीलया ।
स्फुरित्वा कारण भूतं प्रत्यक्ष स्वयमात्मनि || १४४ ||
प्रागकारणमिति । तत्साक्षिप्रत्यक्ष प्राकू सर्गादौ सृष्टे प्राग् अकारण कारणान्तरशून्यम् एव सर्गलीलया सृष्टिप्रपञ्चेन स्फुरित्वा प्रादुभूय आत्मनि सर्गभावापन्ने । स्वस्मिन्नेवेत्यर्थ । स्वयमेव कारण भूत जातमित्यर्थ. ॥१४४॥
कारण स्वविचारोत्थ जीवस्यासदपि स्थितम् । सदिवास्या जगद्रूपं प्रकृतौ व्यक्तिमागतम् ॥१४५॥