________________
१२२
तृतीयो गुच्छक
कारणमिति । जीवस्य अजन्यत्वाद् असदिव स्थित कल्पितम् । इवेत्यनास्थायाम् । अतएव विचारोत्थ कारण तु अस्या प्रकृतौ प्रकृतिलक्षणे स्वभावे सदिव कार्यत्वेन जगद्रूप व्यक्ति प्रकाशताम् आगतम् । यद् वस्तु सृष्टे प्राक् सूक्ष्मता असदिव मध्ये प्रादुर्भावेन सदिव व्यवह्रियमाण पर्यन्ते प्रलयावस्थया पुन सूक्ष्मत्वदधत् तद् इत्थमेवोन्नेतु शक्यमिति परमार्थ । एव लक्षणकमेव वस्तु आदावन्ते च प्रतिपत्तिशून्य निर्दिश्य मध्येऽपि तथा विलक्षण निर्दिश्यते ॥ १४५ ॥ |
स्वयमेव विचारस्तु स्वत उत्थ स्वक वपुः । घट्य घटयत्याशु प्रत्यक्ष परमं महत् ॥ १४६ ॥
स्वयमिति । आत्मनि तु स्वयमेव विचारो विमर्शलक्षण यथासकल्प स्वत उत्थ स्वक वपुविघट्य अन्त करणज्ञानकर्मेन्द्रियै सयुज्य परम महत् प्रत्यक्ष भोग्यभावम् आशु घटयति सपादयतीति तात्पर्यम् ॥१४६॥
विचारवान् विचारोsपि यदात्मान प्रबोधते । तदा राम ! निस्ल्लेखं परमेवाशिष्यते ॥ १४७॥
विचारवानिति । यदा विचारोऽपि विचारवान् सन् आत्मान प्रबोधते अभेदतया अवगच्छति । बुधिर् अवगमने । हे राम । तदा निरुल्लेखम् अविकल्पित पर वस्तु एववशिष्यते केवली भावेनावतिष्ठते ॥ १४७ ॥
इदानीं सिंहावलोकन्यायेन दैवनिराकरण स्मारयन् पौरुषस्य प्राधान्यम् उट्टङ्कयति
स्वयत्नमात्रे रघुराजसूनो !
त वाच्यार्थमपास्य दूरे |
श्रासाद्यतेऽन्तः परम पद तत्
पौरुषेणेव नहीतरेण ॥ १४८ ॥
स्वयत्नेति । गीतोपनिषत्स्वपि अष्टादशे - 'दैव चैवात्र पञ्चमम्' इत्यनेन चतुर्भिश्चमस्य दुर्बलत्व व्यक्तमेवेति स्पष्टम् || १४८।।