________________
१२०
दशकण्ठववम् अयस्तु पूर्वापरयोर्वर्तमानेऽपि तादृशम् ।
यथा जाग्रत् तथा स्वप्नः सिद्धमाबालमागतम् ॥१२६॥ अगस्त्यिति । पूर्वापरयो उत्पत्तिविनाशपूर्वोत्तरकालयो । अवस्तु अभावग्रस्तम् । वर्तमानकालेऽपि ॥१२६।।
स्वप्नसकल्पनाध्यानवरशापौषधादिभिः ।
यथार्था इह दृष्टान्तास्तद्रूपत्वाजगत्स्थितेः ॥१३०॥ स्वप्नेति । जाग्रति कार्याकार्यत्वेन सदिग्धयात्रादौ देवताप्रार्थनादिना शयानस्य स्व'ने कार्यमिति सकल्पोदये तथा चिन्तने चिन्तनोपलक्षितचिरकालपूजामन्त्रजपस्तुत्यादिना तदनुकूलवरलाभे शत्रूणा मुनिशापादिदर्शनेन वा प्रातर्यात्रादिकरणे शत्रुजयादिदर्शनात् स्वाप्नौषधलाभेन जागरे रोगशान्तिदर्शनाच तत्साम्येन सर्वजगत्स्थितेरपि तद्र पत्वात् स्वप्नदृष्टा ता यथार्था ॥१३०॥
स्वप्नाभत्व तु जगतः श्रुते शास्त्रेऽवधार्यते ।
न सद्यः पार्यते वक्त वाकिल क्रमपर्तिनि ॥१३१॥ स्वप्नामेति । तथा च स्वप्नवदाभासमानमिद जगञ्चक शास्त्राद्युपायमन्तरा न केवलया वाचा प्रतिपत्तु सुशकमितिभाव ।
अझारणे कारणता यद्बोधायोपमीयते ।
न तत्र सर्वसाधर्म्य सभवत्युपमागुणे ॥१३२॥ अकारणेति । यदि जगति स्वप्नायुपमाने सर्वाशेऽपि साधयं विवक्षित तर्हि ब्रह्मण्यपि कटकमुकुटाधु पादानस्वर्णदृष्टान्ते तद्वदेव परिणामिता कुतो न विवक्ष्यते ।।१३२।।
उपमेयस्योपमानादेकाशेन सधर्मता।
अङ्गीकार्याऽनवोधाय निर्विवाद सुबुद्धिना ॥१३३॥ उपमेयेति। उक्तार्थस्यैव विशदीकरणम् ॥१३३।।
दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति । उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः॥१३४||