________________
तृतीयो गुच्छक
११७ नीरागा इति । वस्तुतो जन्मजन्मान्तरार्जिततपस्तीर्थसग्रहाणामेव पारमाथिक फल तादृक् चित्तवृत्तिसमुदय इति ॥११३॥
त एते नरकानीना सशुष्कन्धनता गताः।
यदृष्टा हेलया सन्तः क्लेशसतापतोयदा ॥११४॥ त एत इति । 'हरत्यघ सप्रति हेतुरेष्यत -' इत्यादिमाघोक्तथा व्याख्यातप्रायमेतत् ॥११४॥
सतोष परमो लाभः सत्सङ्गः परमा गति ।
विचार परम ज्ञान शमो हि परमं सुखम् ॥११॥ सतोष इति । एकैकस्य मोक्षद्वारपालस्य निष्कृष्टार्थदर्शनम् ॥११५।।
एकैकोऽपि किलतेषा परेषा प्रसवास्पदम् ।
तस्मात् ससिद्धये धीमान् यत्नेनैक समाश्रयेत् ॥११६॥ एकैकैति । इदानीमुक्तेषु चतुर्षु एकैकस्यायनुष्ठान परानुष्ठानफलकमिति सक्षेपेण विनेयान् प्रति उपदिशति ॥११६॥
विचारशमसतोषसाधुसङ्गमशालिनि । नरे श्रियो निराजन्ते कल्पवृक्षाश्रये यथा ॥११७॥
॥ इति चतुर्थो द्वारपालः सत्सङ्गः ॥ विचारेति । एवविशेषणविशिष्टे पु सि कल्पद्रमे श्रिय इव यथाकल्पनमुद्भवन्ति ता सर्वा सपद इति यौगिकार्थेनापि स्फुटम् ॥११७||
।' इति चतुर्थो द्वारपाल सत्सङ्ग ॥ इदानी वक्ष्यमाणस्यार्थस्य सुखावबोधाय दृष्टान्तमुत्थापयति
आर्ष वा पौरुष वापि ज्ञानमज्ञाननाशनम् ।
सौरमाग्नेयमथवा तेजस्तिमिरभञ्जनम् ॥११॥ आर्ष वेति । ऋषिर्वेदस्तत आगतमार्षम् । 'सबुद्धौ शाकल्यस्येतावनार्षे' (पा० सू० १।१।१६ ) इत्यादौ ऋषिशब्दस्य वेदपरता प्रसिद्धव । तथाचार्ष ज्ञान