________________
दशकएठवधम्
इदानीमतिम साधुसङ्गमाख्य मोक्षद्वारपाल सप्तभि प्रपञ्चयति
शुन्यमाकीर्णता धत्त मृत्युरप्युत्सपायते ।
विपत्सपदिवाभाति राम ! साधुसमागमे ॥१११॥ शुन्यमिति । सायव सन्त इति जगति सुप्रसिद्धमेवाबालाङ्गनम् । तत्र विशिष्टयाच्यार्थस्तु प्रतिश्लोक व्युत्पादित एव । य इदानीमपि शब्दगुणेनापि
आस्तिकपु गवान् आश्वासयति । व्युत्पादनविवा तु-'मनुष्याणा सहस्रषु कश्चि द् यतति सिद्धये' ( भ गी ७-३) इत्यादि यायेन दुर्लभतरतमैव । अत्र सामा न्यसाधुपदार्थनिर्वचन भवभूतीयमपि न विस्मर्तव्यम् । तथाहि-- "प्रियप्राया वृत्तिविनयमधुरो वाचि नियम
प्रकृत्या कल्याणी मतिरनवगीत परिचय । पुरो वा पश्चाद् वा तदिदमविपर्यासितरस
रहस्य साधूनामनुपधि विशुद्ध विजयते ॥" इति । एतेषा परीक्षण तु
'शमदम्भ शुचिदम्भ स्नातकदम्भ समाधिदम्भश्च ।
निस्पृहदम्भस्य तुला यान्ति न चैते शताशेन ।' इत्येवमादिक्षेमेन्द्रसूक्तितोऽपि सुव्यक्तम् । 'शून्यमाकीर्णता धत्ते-' यथा-सुर थ-समाध्यो सुमेधस सगमे । '-मृत्युरप्युत्सवायते' यथा भगवत श्रीधीचस्य । 'विपत्सपदिवाभाति-' यथा-कुती-वासुदेवयो ॥११॥
मतेर्विकासनं सम्यड् निष्कासनमहमतेः ।
आधेरपासन सौम्य ! साधुसङ्गमसौभगम् ॥११२॥ मतेरिति । मते -मुकुलिताया इत्यर्थ । अहमते अविद्याया । सा च पिशा चीव पुमासमात्मसात् करोति । आधे मानसव्यथाया । अपासन सुदूरनिष्कासनम् ॥११२।।
नीरागाश्छिन्नसदेहा गलितग्रन्थयोऽनध ! ) साधवो यदि विद्यन्ते कि तपस्तीर्थसग्रहैः ॥११३॥