________________
तृतीयो गुच्छक अथ सतोषारय तृतीय द्वारपाल पञ्चभि प्रपञ्चयति
सतोपैश्वर्यसुसिना चिरविश्रान्तचेतसाम् ।
साम्राज्यमपि शान्ताना प्रतिभाति तृणोपमम् ॥१०६॥ सतोषेति । शान्तानाम् अचलप्रतिष्ठानाम् ॥१०६॥
सतोषमुदिता प्रज्ञा राम ! ससारवृत्तिषु ।
विषमास्वप्यनुद्विग्ना न कदाचन हीयते ॥१०॥ सतोषमुदितेति । सतोषेण मुदिता प्रसन्ना । ससारवृत्तिषु सासारिकीषु व्यवहृतिषु । विषमासु असमञ्जसासु । अनुद्विग्ना निर्बाधा । न कदाचन हीयते अपितु यथासभव चीयत एव ॥१०७।।
श्रात्मनात्मनि सतोष यावन्नामोति मानसम् ।
उद्भवन्त्यापदस्तावल्लता इस मनोबिलात् ॥१०॥ प्रात्मनेति । मन एव विषमत्वाद् विलम् गर्त । उद्धरेदात्मनात्मान नात्मानमवसादयेदिति भाव ॥१०॥
आशाविलासविवशे चित्ते सतोषवर्जिते ।
म्लानादर्श वक्त्रमिव ज्ञान न प्रतिबिम्बति ॥१०६॥ आशाविलासेति । निर्मले हि चन्द्रादि प्रतिफलति । व्यत्यासे तु प्रति फलितमपि दोषाक्रान्तमिव प्रतीयत इति स्पष्टम् ॥१०॥
नालब्धमेष्यते येन न लब्ध चाभिनन्द्यते । स पूर्णेन्दुरिवाऽऽपूर्णः सतुष्ट इति गण्यते ॥११०॥
॥ इति तृतीयो द्वारपालः सतोष ।। नालब्धमिति । सतोषस्य स्वरूपप्रतिष्ठानमेतत् ।।११०।।
॥ इति तृतीयो द्वारपाल' सतोष ॥