________________
११४
दशकण्ठव वम् या विचारविकासिन्यो मतयो गतयो विदाम् ।
अप्सु तुम्ब्य इनापत्सु न ता मजन्ति वाहिताः ॥१०॥ या विचारेति । गतय अवगमा । वाहिता आश्रिता ॥१००।।
मूढमानसरूढानामवाप्य पटुरोधिनाम् ।
अविचारकरञ्जाना मञ्जयों वेधसूचिकाः ॥१०१।। मूढमानसेति । अविचार एव समन्ताद् व्यथकत्वेन करञ्जा । मञ्जर्यो वल्लर्य । वेधसूचिका वेधनसूच्य ॥१०१।।
कजलक्षोदमलिना मदिरामदधमिणी ।
अविचारमयी निद्रा सुज्ञा स्वप्न न सर्पति ॥१०२।। कजलेति । स्पष्टम् ॥१०२॥
रामैष केलीभान सुविचारकृषेः फलम् ।
यत्र निष्कामतोदेति शीताशामिव शीतता ॥१०३॥ रामेति । निष्कामता वासनाराहित्यम् ॥१०३॥
उपेक्षते गत वस्तु सप्राप्तमनुवर्तते ।
न क्षुब्धो वा न चाक्षुब्धः प्राज्ञ पूर्ण इवार्णवः ॥१०४॥ उपेक्षत इति । एवलक्षणक स्थितप्रज्ञो भवतीति भाव ॥१०४॥
कोऽह कथमय दोषः ससार इति सततम् । यथाशास्त्र परामर्शो विचार इति कीर्त्यते ॥१०॥
॥ इति द्वितीयो द्वारपालो पिचारः॥ कोऽहमित्ति । प्रकृतोपयुक्त विचारलक्षणमेतत् ।।१०।।
।। इति द्वितीयो द्वारपालो विचार ॥